2023-02-23 21:27:13 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
श्वेतं श्वेतनामानं नृपं रविजत्रासेन स्वयंभुलिङ्गमालिङ्गन्तमाशु शीघ्रमेव त्राहीतिनिवेदना-
नन्तरमेवानुगृह्य दृशैव तृतीयलोचनरूपया यमं शमं भस्मावशेषतां नयति स्म । किंभू-
तम् । विपक्षं रिपुं पूर्वोद्दिष्टपक्षविपरीतं च । तमहं शरणं श्रयामीति संबन्धः ॥
चक्री मुखाग्रविलसज्ज्वलनोग्रजिह्वा-
लीढाम्बरः क्षितिधरेन्द्रधनुर्धरस्य ।
यस्यागमन्निधनसाधनतां पुराणां
बाणीकृतश्च रणमूर्ध्नि गुणीकृतश्च ॥ १७ ॥
चक्रीति । यस्य श्रीशिवस्य रणमूर्ध्नि सङ्ग्रामशिरसि चक्री चक्रं सुदर्शनाख्यमस्या-
स्तीति चक्री विष्णुर्बाणीकृतः शरीकृतः शरभावं संपन्नः । तथा चक्रं कुण्डलाकारत्वम्-
स्यास्तीति चक्री (सूर्यो) वासुकिश्च । 'चक्री व्यालः सरीसृपः' इत्यमरः । 'चक्रिणौ
हरिपन्नगौ' इत्यप्यमरः । गुणीकृतः । गुणो ज्या । अगुणो गुणः संपन्नः । धनुषो ज्या-
भूतश्च । पुराणां त्रिपुराख्यासुराणां निधनसाधनतां मृत्युनिमित्ततामगमत् । प्राप्येत्यर्थः ।
द्वावपि विशिनष्टि— मुखाप्रेति । चक्री विष्णुः शरभूतः कीदृक् । मुखस्य शरफलस्यामं
तत्र विलसज्वलनः साक्षादग्निस्तस्य या उग्राः कठिना ज्वालाः शिखास्ताभिलींढं व्या-
समम्बरं येन सः । चक्री (सूर्यो) वासुकिश्च । धनुर्गुणः किंभूतः । मुखस्य वदनस्याअं
तत्र विशेषेण लसन्त्यो या ज्वलनवदग्निवदुग्रा जिह्वा रसनास्ताभिदमम्बरं युद्धवस्त्रं
येन सः । यस्य विभोः किंभूतस्य । क्षितिधराणां पर्वतानामिन्द्रो मन्दराख्यो गिरिः स
एव धनुस्तं धारयतीति तादृशस्य ॥
चक्रायुधं विशिखतामुडुचक्रवर्ति
चक्राभिधानसुहृदौ रथचक्रभावम् ।
नीत्वासृजत्रिदशधानि रसातले च
यो हर्षशोकमयमश्रु पुराङ्गनानाम् ॥ १८ ॥
चक्रेति । यो विभुश्चक्रायुधं विष्णुं विशिखतां शरभावं नीत्वा प्रापय्य तथा उडूनां
नक्षत्राणां चक्रवर्ती इन्दुः चक्राभिधानसुहृत्सूर्यस्तौ च रथचक्रभावं क्षोणीरूपस्य रथस्य
चक्रद्वयभावं नीत्वा त्रिदशधानि देवालये स्वर्गे पुराङ्गनानां पुरे नगरे या अङ्गनाः का
मिन्यः । पौराङ्गना इत्यर्थः । तासां हर्षमयमश्रु असृजत् । तथा रसातले पाताले च
पुराङ्गनानां पुराणां त्रिपुराख्यासुराणां या अङ्गनास्तासां शोकमयमश्रु असृजत् । तासां
भर्तृवाच्छोकाश्रमो जात इत्यर्थः ॥
आरूढरीढमंपि येन समर्पितेन
प्रीतिं रतिं च हृदि विस्मरति स्म कामः ।
१. 'इव' इति ख- पाठ:.
Digitized by Google