This page has been fully proofread once and needs a second look.

८ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
'पाली ख्यध्यश्र्यङ्कपकिङ्क्तिषु' इति मङ्गःखः । कृतिनां विपश्चितां धन्यानां कमलावलीव पद्मधेश्रे.

णीवाविकलं पूर्णं कुशलं करोति तं शरणमाश्रयामि ॥

 
यं देवमस्तशिरसं सुरभर्तुर
ङ्के
लङ्केशवैरिकरवीजिततालवृन्तम् ।

आसीनसुप्तसुखितं शतरुद्रियादि-

मन्त्रैः स्वरेण मधुरेण गृणाति वेधाः ॥ १४ ॥
 

 
यस्येति । सुरभर्तुरिन्द्रस्याङ्के अस्तं न्यस्तं शिरो येन स तादृशम् । तथा लङ्केशवैरिणो

दशमुखशत्रोर्विष्णोर्यः करो हस्तस्तेन वीजितं तालवृन्तं यस्य स तादृशम् । तथासीनस्य

सुप्तमासीनसुप्तम् । आसीनसुप्तेनासीनीभूतनिद्रया जानुनिद्रया त्रिजगदुपकाराय त्रिपुरा-

न्धकादिसंहारार्थविहितयद्धोद्भूतातिखेदागतया सुखितं सन्तं यं देवमीश्वरं वेधा ब्रह्मा
 

शतरुद्रियादिमन्त्रैः 'षट्षष्टिर्नीलसूक्तं च पुनजर्पति षोडशीम्' इत्यादिलक्षणलक्षितैर्वेवैदि-

कैर्मन्त्रैर्मधुरेण स्वरेणोदात्तानुदात्तादिना सप्तविधेन गृणाति स्तौति । तं विभुं शरण-

माश्रयामि ॥
 

 

 
हेलावलीढभुवनत्रितयेन येन
 

गीर्णाः पुरंदरमुकुन्दरवीन्दवोऽपि ।

यस्य ज्वलद्विपुलभालविलोचनाग्नि-

ज्वालावली[^१]शलभतामगमत्स कालः ॥ १९ ॥
 

 
हेलेति । स कालोऽन्तकः । अपिशब्द आर्थः । अन्तकोऽपि यस्य श्रीशिवस्य वि

पुले विस्तीर्णे भाले ललाटे यो विलोचनाग्निस्तृतीयनेत्रानलस्तस्य या ज्वालानामावली

तत्र शलभतां पतङ्गत्वमगमत् । स कालः क इत्याह - येन कालेन हेलावलीढभुवन-

त्रितयेन हेलयावलीढं प्ग्रस्तं भुवनत्रितयं येन स तादृशेन सता पुरंदरमुकुन्दरवीन्दवो-

ऽपि इन्द्रविष्णुसूर्यचन्द्रा अपि गीर्णा निगीर्णाः । प्राग्वत्संबन्धः ॥

 
श्वेतं विधोरुदयहेतुम[^२]वेत्य पक्षं
 

कालं च यः क्षयकरं दृशमाश्रितस्य ।

श्वेतं दयाविशदयाशु दृशानुगृह्य
 

कालं दृशैव नयति स्म शमं विपक्षम् ॥ १६ ॥

 
श्वेतमिति । यो विभुर्दृशं दृष्टिटिं वामलोचनरूपामाश्रितस्य विधोश्चन्द्रस्योदयहेतुं श्वेतं

पक्षं शुक्लपक्षमवेत्य ज्ञात्वा । कालं पक्षं कृष्णं पक्षं च विधोः क्षयकरं ज्ञात्वा । अत एव

श्वेतकालयोरनुप्ग्रहनिप्ग्रहौ शब्दश्लेषेणान्यथा संभावयति — श्वेतं दयेति । अत एव हेतोः

 
[^
]. 'शरभतां' इति क-पाठ:.
[^
]. 'अवेक्ष्य' इति ख- पाठः.
 
-
 
१२
 
Digitized by Google