2023-02-23 21:27:13 by ambuda-bot
This page has not been fully proofread.
८ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
'पाली ख्यध्यकपकिषु' इति मङ्गः । कृतिनां विपश्चितां धन्यानां कमलावलीव पद्मधे.
णीवाविकलं पूर्ण कुशलं करोति तं शरणमाश्रयामि ॥
यं देवमस्तशिरसं सुरभर्तुर
लङ्केशवैरिकरवीजिततालवृन्तम् ।
आसीनसुप्तसुखितं शतरुद्रियादि-
मन्त्रैः स्वरेण मधुरेण गृणाति वेधाः ॥ १४ ॥
यस्येति । सुरभर्तुरिन्द्रस्याङ्के अस्तं न्यस्तं शिरो येन स तादृशम् । तथा लङ्केशवैरिणो
दशमुखशत्रोर्विष्णोर्यः करो हस्तस्तेन वीजितं तालवृन्तं यस्य स तादृशम् । तथासीनस्य
सुप्तमासीनसुप्तम् । आसीनसुप्तेनासीनीभूतनिद्रया जानुनिद्रया त्रिजगदुपकाराय त्रिपुरा-
न्धकादिसंहारार्थविहितयद्धोद्भूतातिखेदागतया सुखितं सन्तं यं देवमीश्वरं वेधा ब्रह्मा
शतरुद्रियादिमन्त्रैः 'षट्षष्टिर्नीलसूक्तं च पुनजर्पति षोडशीम्' इत्यादिलक्षणलक्षितैर्वेदि-
कैर्मन्त्रैर्मधुरेण स्वरेणोदात्तानुदात्तादिना सप्तविधेन गृणाति स्तौति । तं विभुं शरण-
माश्रयामि ॥
●
हेलावलीढभुवनत्रितयेन येन
गीर्णाः पुरंदरमुकुन्दरवीन्दवोऽपि ।
यस्य ज्वलद्विपुलभालविलोचनाग्नि-
ज्वालावलीशलभतामगमत्स कालः ॥ १९ ॥
हेलेति । स कालोऽन्तकः । अपिशब्द आर्थः । अन्तकोऽपि यस्य श्रीशिवस्य वि
पुले विस्तीर्णे भाले ललाटे यो विलोचनाग्निस्तृतीयनेत्रानलस्तस्य या ज्वालानामावली
तत्र शलभतां पतङ्गत्वमगमत् । स कालः क इत्याह - येन कालेन हेलावलीढभुवन-
त्रितयेन हेलयावलीढं प्रस्तं भुवनत्रितयं येन स तादृशेन सता पुरंदरमुकुन्दरवीन्दवो-
ऽपि इन्द्रविष्णुसूर्यचन्द्रा अपि गीर्णा निगीर्णाः । प्राग्वत्संबन्धः ॥
श्वेतं विधोरुदयहेतुमवेत्य पक्षं
कालं च यः क्षयकरं दृशमाश्रितस्य ।
श्वेतं दयाविशदयाशु दृशानुगृह्य
कालं दृशैव नयति स्म शमं विपक्षम् ॥ १६ ॥
श्वेतमिति । यो विभुर्दृशं दृष्टि वामलोचनरूपामाश्रितस्य विधोश्चन्द्रस्योदयहेतुं श्वेतं
पक्षं शुक्लपक्षमवेत्य ज्ञात्वा । कालं पक्षं कृष्णं पक्षं च विधोः क्षयकरं ज्ञात्वा । अत एव
श्वेतकालयोरनुप्रहनिप्रहौ शब्दश्लेषेणान्यथा संभावयति — श्वेतं दयेति । अत एव हेतोः
१. 'शरभतां' इति क-पाठ:. २. 'अवेक्ष्य' इति ख- पाठः.
-
१२
Digitized by Google