This page has been fully proofread once and needs a second look.

८८
 
काव्यमाला ।
 
किं'[^१] चाङ्गसङ्गि मरुदीरितमेति यस्य

मुण्डं नमत्स्वमलमङ्गलकम्बु[^२]शोभाम् ॥ ११ ॥
 

 
यस्येति । भुजानष्टादश गच्छन्तीति भुजगाः कृष्णभुजगाः कृष्णसर्पा इन्दीवरस्रज इव

नीलोत्पलमाला इव भजन्तं भक्तजनं प्रकर्षेण विनन्दयति तोषयन्ति । किं चाधिकं वच्मि

यस्य विभोरङ्गसङ्गि अङ्गे सङ्गो विद्यते यस्य तन्मुण्डं ब्रह्मशिरः कपालं मरुदीरितं मरुता

ईरितं प्रध्मातम् । अत एव ध्वनदित्यर्थात् । नमत्सु भक्तेष्वमलमङ्गलकम्बुशोभाममलो

निर्मलो मङ्गलार्थं यः कम्बुः शङ्खस्तस्य शोभामेति प्राप्नोति । रसवदलंकारोऽत्र ध्वन्यते ।

एवमग्रेऽपि ॥
 

 
यस्येमचर्म घनशोणितपै[^३]पङ्कलिप्त-

मङ्गेषु मङ्गलदुगूलविलासमेति ।

यस्यापि तापविधुरेषु करे कपाल-

मालम्बतेऽमृतकमण्डलुखण्डलीलाम् ॥ १२ ॥

 
यस्येति । यस्य विभोर्नं यच्छोणितपकंङ्कः तेन लिप्तमिभचर्म गजचर्म मङ्गलदुगूल-

विलासं मङ्गलार्थं दुगूलम् । 'बहुमूल्यं महाधनम् । क्षौमं दुगूलं स्यात्' इत्यमरः । 'दु-

ह्
यते क्षुमाया आकृष्यते' इति क्षीरस्वामी । वैदेशिकादर्शेषु प्रायशो 'दुकूलं' इत्येव पा
ठो
दृश्यते । तत्र प्राचीनकविभिरपि तथैव ग्रन्थेषु स्वकृतेषु पाठो लिखितः । तथापि म

हाकविश्रीजयदेवमिश्रेण गीतगोविन्दे दुगूलशब्द उपन्यस्तः । यथा – केलिकलाकुतु-

केन च काचिदमुं यमुनाजलकूले । मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुगूले ॥' इति ।

मङ्गलदुगूलस्य विलासमेति प्राप्नोति । तथा यस्य विभोः करे कपालमपि । अपिशब्दो-

ऽत्र मित्रभिन्नक्रमः । तापास्त्रय आध्यात्मिकाद्यास्त एव तापास्तैर्विधुरा विह्वलास्तेष्वनुतेन
भूतेन
पूर्णो यः कमण्डलुः कुण्डी तस्य लीलां विलासं श्रयति तमहं श्रयामीति संबन्धः ।

 
यत्पादपांसुपरिमर्शशुचि श्मशानं

श्रीशैलनैमिषमुखान्यधरीकरोति ।

यत्संस्तवादविकलं कुशलं कपाल-

पाली करोति कृतिनां कमलावलीव ॥ १३ ॥
 

 
यदिति । यस्य विभोः पादयोः पांसू रजस्तेन यः परिमर्श: स्पर्शस्तेन शुचि पवित्री-

कृतं सत् श्मशानं पितृवनं श्रीशैलः सिद्धगिरिर्नैमिषं तीर्थविशेषस्ते मुखे येषां तानि ती-

र्थान्यधरीकरोति तिरस्करोति । तथा यस्य विभोः संस्तवात्परिचयात्स्पर्शरूपात्कपा-

लानां कालाभिग्निरुद्ररूपेण महाप्रलयादौ संहृतानां ब्रह्मविष्ण्वादिमुण्डानां पाली पङ्क्तिः ।
 

 
[^
]. 'खट्वाङ्गसङ्गि' इति ख- पाठः
[^
]. 'लीलाम्' इति क-पाठ:.
[^
]. 'पङ्किपिङ्ग
' इति ख- पाठः
 
Digitized by Google