This page has not been fully proofread.

८८
 
काव्यमाला ।
 
किं' चाङ्गसङ्गि मरुदीरितमेति यस्य
मुण्डं नमत्स्वमलमङ्गलकम्बुशोभाम् ॥ ११ ॥
 
यस्येति । भुजानष्टादश गच्छन्तीति भुजगाः कृष्णभुजगाः कृष्णसर्पा इन्दीवरस्रज इव
नीलोत्पलमाला इव भजन्तं भक्तजनं प्रकर्षेण विनन्दयति तोषयन्ति । किं चाधिकं वच्मि
यस्य विभोरवसङ्गि अङ्गे सङ्गो विद्यते यस्य तन्मुण्डं ब्रह्मशिरः कपालं मरुदीरितं मरुता
ईरितं प्रध्मातम् । अत एव ध्वनदित्यर्थात् । नमत्सु भक्तेष्वमलमङ्गलकम्बुशोभाममलो
निर्मलो मङ्गलार्थ यः कम्बुः शङ्खस्तस्य शोभामेति प्राप्नोति । रसवदलंकारोऽत्र ध्वन्यते ।
एवमग्रेऽपि ॥
 
यस्येमचर्म घनशोणितपैङ्कलिप्त-
मङ्गेषु मङ्गलदुगूलविलासमेति ।
यस्यापि तापविधुरेषु करे कपाल-
मालम्बतेऽमृतकमण्डलुखण्डलीलाम् ॥ १२ ॥
यस्येति । यस्य विभोर्धनं यच्छोणितपकं तेन लिप्तमिभचर्म गजचर्म मङ्गलदुगूल-
विलासं मङ्गलार्थ दुगूलम् । 'बहुमूल्यं महाधनम् । क्षौमं दुगूलं स्यात्' इत्यमरः । 'दु-
यते क्षुमाया आकृष्यते' इति क्षीरस्वामी । वैदेशिकादर्शेषु प्रायशो 'दुकूलं' इत्येव पाठ
दृश्यते । तत्र प्राचीनकविभिरपि तथैव ग्रन्थेषु स्वकृतेषु पाठो लिखितः । तथापि म
हाकविश्रीजयदेवमिश्रेण गीतगोविन्दे दुगूलशब्द उपन्यस्तः । यथा – केलिकलाकुतु-
केन च काचिदमुं यमुनाजलकूले । मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुगूले ॥' इति ।
मङ्गलदुगूलस्य विलासमेति प्राप्नोति । तथा यस्य विभोः करे कपालमपि । अपिशब्दो-
ऽत्र मित्रक्रमः । तापास्त्रय आध्यात्मिकायास्त एव तापास्तैर्विधुरा विलास्तेष्वनुतेन
पूर्णो यः कमण्डलुः कुण्डी तस्य लीलां विलासं श्रयति तमहं श्रयामीति संबन्धः ।
यत्पादपांसुपरिमर्शशुचि श्मशानं
श्रीशैलनैमिषमुखान्यधरीकरोति ।
यत्संस्तवादविकलं कुशलं कपाल-
पाली करोति कृतिनां कमलावलीव ॥ १३ ॥
 
यदिति । यस्य विभोः पादयोः पांसू रजस्तेन यः परिमर्श: स्पर्शस्तेन शुचि पवित्री-
कृतं सत् श्मशानं पितृवनं श्रीशैलः सिद्धगिरिनैमिषं तीर्थविशेषस्ते मुखे येषां तानि ती-
र्थान्यधरीकरोति तिरस्करोति । तथा यस्य विभोः संस्तवात्परिचयात्स्पर्शरूपात्कपा-
लानां कालाभिरुद्ररूपेण महाप्रलयादौ संहृतानां ब्रह्मविष्ण्वादिमुण्डानां पाली पतिः ।
 
१. 'खट्वाङ्गसङ्गि' इति ख- पाठः २. 'लीलाम्' इति क-पाठ:. ३. 'पकपिङ्ग
इति ख- पाठः
 
Digitized by Google