This page has been fully proofread once and needs a second look.

८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
कि वापरं बहु ब्रूमः श्रीशिवभट्टारकः सकलमूर्तिद्रुहिणकृष्णहरत्वं ब्रह्मविष्णुरुद्रत्वमेत्य

जगत्रयस्य त्रिजगतः सर्गस्थितिप्रशमनानि सृष्टिस्थितिलयान् येन स्वातन्त्र्येण व्यधित ।

क्रीडन्निवेति सर्वत्र संबध्यते । तत्स्वातन्त्र्यं जयतीति संबन्धः । अन्यत्र उत्तमाङ्गच्छेदं

विधेरित्यादि । श्रीशंभोरवदानानि पुराणेषु प्रसिद्धानीति तद्दूहोऽत्र न लिखितः ॥ पञ्च-

भिः कुलकम् ॥

इतः प्रभृति
 
पञ्चविंशतिश्लोकैर्महाकुलकमाह -

यस्यातिघोरगरलादपि कण्ठपीठा-

त्संजीवनौषधमुदेति वचो नतानाम् ।

यस्य ज्वलद्नकृशानुशिखोल्बणापि

वर्षात्यमोघममृतद्रवमेव दृष्टिः ॥ ९ ॥
 

 
यस्येति । अतिघोरगरलं कालकूटाख्यविषविशेषो यस्मिंस्तादृशादपि यस्य परमे-

श्वरस्य कण्ठपीठात्संजीवनौषधं संजीवनाख्यौषधं वचो नतानां भक्तिप्रह्लानां संजीवन

मा भैष्टेत्यादिकमुदेति । अप्ग्रे पञ्चविंशतितमे श्लोके तं विभुं शरणमाश्रयामीति संबन्धः ।

एवमग्रिमश्लोकेष्वपि । तथा घना या कृशानुशिखा अग्निशिखा ताभिरुल्णा उद्भटापि

दृष्टिस्तृतीयनेत्ररूपा नतानां भक्तिप्रहाह्वानाममृतद्रवमव सुधारसमेवामोघं वर्षति । इत्येत-

दत्याश्चर्ये यदतिदारुणविषादपि जीवनममेग्नेरप्यमृतप्रवाहप्रसर इति भावः ॥
 

 
दंष्ट्राकरालमपि घोरमघोरवक्त्रं
 

यस्य प्रपन्नभयभञ्जनभङ्गिमेति ।

यस्याङ्गभस्म कणिकाश्चरणाश्रितेषु

कर्पूरधूलिपटलश्रियमाश्रयन्ति ॥ १० ॥
 

 
दंष्ट्रेति । दंष्ट्राभिः करालं विकरालमपि यस्य सकलनाथस्य पञ्चमुखस्य घोरं क

ठिनम् । नीलोत्पलाभमिति शेषः । (अघोराख्यं वकंक्त्रं) प्रपन्नानां शरणागतानां भवस्य
यस्य
भञ्जनं तस्य भङ्गिर्विच्छित्तिस्तामेति । अद्भुतमेतत् । दंष्ट्राकरालादपि परमेश्वराघोरव-
का

क्रा
द्भक्तभयभङ्गः । एतदघोरवकध्यानमपि दशमुखेन वदनपञ्चकस्तुतौ कथितं यथा-

'कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिशेङ्गेक्षणं भालन्दूज्ज्वलितं हिमा॑श॒शुवदनप्रोद्भिन्नदं-

ष्ट्राङ्कुरम् । सर्पप्रोतकपालशुक्तिशकलव्याकीर्णसच्छेखरं वन्दे दक्षिणमीश्वरस्य कुटिल-

भ्रूभङ्गरौद्रं मुखम् ॥' इति । यस्य चाहेङ्गे भस्मकणिका विभूतिकणाश्चरणाश्रितेषु भक्त-

जनेषु कर्पूररजः पटलश्रियमाश्रयन्ति तं विभुं शरणं श्रयामीति संबन्धः ॥
 
-
 

 
यस्यापि कृष्णभुजगा भुजगा भजन्त-

मिन्दीवरस्त्रज इव प्रविनन्दयन्ति ।
 
Digitized by Google