2023-02-23 21:27:13 by ambuda-bot
This page has not been fully proofread.
८ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
कि वापरं बहु ब्रूमः श्रीशिवभट्टारकः सकलमूर्तिद्रुहिणकृष्णहरत्वं ब्रह्मविष्णुरुद्रत्वमेत्य
जगत्रयस्य त्रिजगतः सर्गस्थितिप्रशमनानि सृष्टिस्थितिलयान् येन स्वातन्त्र्येण व्यधित ।
क्रीडन्निवेति सर्वत्र संबध्यते । तत्स्वातन्त्र्यं जयतीति संबन्धः । अन्यत्र उत्तमाङ्गच्छेदं
विधेरित्यादि । श्रीशंभोरवदानानि पुराणेषु प्रसिद्धानीति तद्होऽत्र न लिखितः ॥ पञ्च-
भिः कुलकम् ॥
इतः प्रभृति
पञ्चविंशतिश्लोकैर्महाकुलकमाह -
यस्यातिघोरगरलादपि कण्ठपीठा-
त्संजीवनौषधमुदेति वचो नतानाम् ।
यस्य ज्वलद्वनकृशानुशिखोल्बणापि
वर्षात्यमोघममृतद्रवमेव दृष्टिः ॥ ९ ॥
यस्येति । अतिघोरगरलं कालकूटाख्यविषविशेषो यस्मिंस्तादृशादपि यस्य परमे-
श्वरस्य कण्ठपीठात्संजीवनौषधं संजीवनाख्यौषधं वचो नतानां भक्तिप्रह्लानां संजीवन
मा भैष्टेत्यादिकमुदेति । अप्रे पञ्चविंशतितमे श्लोके तं विभुं शरणमाश्रयामीति संबन्धः ।
एवमग्रिमश्लोकेष्वपि । तथा घना या कृशानुशिखा अग्निशिखा ताभिरुल्वणा उद्भटापि
दृष्टिस्तृतीयनेत्ररूपा नतानां भक्तिप्रहानाममृतद्रवमव सुधारसमेवामोघं वर्षति । इत्येत-
दत्याश्चर्ये यदतिदारुणविषादपि जीवनममेरप्यमृतप्रवाहप्रसर इति भावः ॥
दंष्ट्राकरालमपि घोरमघोरवक्रं
यस्य प्रपन्नभयभञ्जनभङ्गिमेति ।
यस्याङ्गभस्म कणिकाश्चरणाश्रितेषु
कर्पूरधूलिपटलश्रियमाश्रयन्ति ॥ १० ॥
दंष्ट्रेति । दंष्ट्राभिः करालं विकरालमपि यस्य सकलनाथस्य पञ्चमुखस्य घोरं क
ठिनम् । नीलोत्पलाभमिति शेषः । (अघोराख्यं वकं) प्रपन्नानां शरणागतानां भवस्य
भञ्जनं तस्य भङ्गिर्विच्छित्तिस्तामेति । अद्भुतमेतत् । दंष्ट्राकरालादपि परमेश्वराघोरव-
काद्भक्तभयभङ्गः । एतदघोरवकध्यानमपि दशमुखेन वदनपञ्चकस्तुतौ कथितं यथा-
'कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिशेक्षणं भालन्दूज्ज्वलितं हिमा॑श॒वदनप्रोद्भिनदं-
ष्ट्राङ्कुरम् । सर्पप्रोतकपालशुक्तिशकलव्याकीर्णसच्छेखरं वन्दे दक्षिणमीश्वरस्य कुटिल-
भ्रूभङ्गरौद्रं मुखम् ॥' इति । यस्य चाहे भस्मकणिका विभूतिकणाश्चरणाश्रितेषु भक्त-
जनेषु कर्पूररजः पटलश्रियमाश्रयन्ति तं विभुं शरणं श्रयामीति संबन्धः ॥
-
यस्यापि कृष्णभुजगा भुजगा भजन्त-
मिन्दीवरस्त्रज इव प्रविनन्दयन्ति ।
Digitized by Google