This page has been fully proofread once and needs a second look.

८६
 
काव्यमाला ।
 
धित । तथा येन स्वातन्त्र्येण मघोन इन्द्रस्य बाहुपरिघप्रतिघं दक्षिणबाह्वर्गलस्तम्भं व्य-

धित । तथा सप्तदिवसानि सप्तदिनावधि मरुत्तनृपतेर्मरुत्ताख्यराज्ञः । पुर इति शेषः ।

हैमं वर्षं सुवर्णवर्षणं व्यधित । तथा येन स्वातन्त्र्येणाच्युतस्य विष्णोः सुदर्शनसमर्पणं सु-

दर्शनाख्यचक्रप्रसादीकरणं व्यधित । अत्रापि 'तवैश्वर्येयं यत्नाद्यदुपरि' इति वृत्ते ॥

 
श्वेतस्य कण्ठपुलिनात्समवर्तिपाश-

प्रोत्सारणं नयननिर्हरणं भगस्य ।

दुग्धाब्धिदानमुपमन्युमुनेः क्रियासु
 

दक्षस्य विघ्नकरणं मखदीक्षितस्य ॥ ६ ॥
 

 
तथा श्वेतस्य श्वेताख्यनृपतेरन्तत्रासे स्वयंभूलिङ्गमालिङ्गन्तः कण्ठपुलिनात्कण्ठत-

टात्समवर्तिपाशप्रोत्सारणं यमफणिपाशप्रोत्सारणं येन स्वातन्त्र्येण व्यक्तिधित। तथा येन

स्वातन्त्र्येणोपमन्युमुनेरुपमन्युनाम्नो मुनेर्वाबालस्य क्षोराब्धिदानं क्षीरसमुद्रदानं व्यधित ।

तथा येन स्वातन्त्र्येण मखे क्रतौ निमन्त्रितसर्वदेवतागणे दीक्षितस्य दक्षस्य दक्षप्र-

जापतेः क्रियासु कर्मसु विघ्नं व्यक्ति ।

 
शूलाधिरोह[^१]णपराभवमन्धकस्य

पूष्णो हनुग्रहमनुग्रह मर्जुनस्य ।

नन्दीश्वरस्य रविजादभयं मुभुजंग-

भङ्ग्याभिमानमथनं मुनिमानिनीनाम् ॥ ७ ॥

 
तथा येन स्वातन्त्र्येणान्धकस्यान्धकासुरस्य शूले वधार्थं काष्ठमये वधदण्डेऽधि-

रोहणमारोहणमेव पराभवस्तं व्यधित । तथा यॆयेन स्वातन्त्र्येण पूष्णो रवेर्हनुः कपोल-

माग्ना । 'कपोलौ तत्परा हनुः' इत्यमरः । इन्वोर्ग्रहो हनुग्रहस्तं व्यक्तिधित । तथार्जुनस्य

पार्थस्यानुग्रहं जयद्रथकर्णादिमहारथजेतृत्वाख्यं व्यधित । तथा येन स्वातन्त्र्येण नन्दी-

श्वरस्य गणाधीशस्य रविजाद्यमादभयं त्राणं व्यधित । तथा येन स्वातन्त्र्येण मुनिमा-

निनीनां मुनिस्त्रीणां भुजंगभङ्ग्या भुजंगस्य कामुकस्य भङ्गिर्विच्छित्तिस्तयाभिमानस्य

चारित्राभिमानस्य मथनं व्यधित ॥
 

 
कि वो[^२]वापरं द्रुहिणकृष्णहरत्वमेत्य

सर्गस्थितिप्रशमनानि जगत्रयस्य ।

क्रीडन्निव व्यतिधित येन निरङ्कुशं त-

त्स्वातन्त्र्यमप्रतिहतं जयतीश्वरस्य ॥ ८ ॥
 
१. 'रोपण' इति क-पाठः २. 'चापरं' इति ख- पाठः.
 

(पञ्चभिः कुलकम् )
 
Digitized by Google
 

 
[^१]. 'रोपण' इति क-पाठः
[^२]. 'चापरं' इति ख- पाठः