This page has not been fully proofread.

८६
 
काव्यमाला ।
 
धित । तथा येन स्वातन्त्र्येण मघोन इन्द्रस्य बाहुपरिघप्रतिघं दक्षिणबाहर्गलस्तम्भं व्य-
धित । तथा सप्तदिवसानि सप्तदिनावधि मरुत्तनृपतेर्मरुत्ताख्यराज्ञः । पुर इति शेषः ।
हैमं वर्ष सुवर्णवर्षणं व्यधित । तथा येन स्वातन्त्र्येणाच्युतस्य विष्णोः सुदर्शनसमर्पणं सु-
दर्शनाख्यचक्रप्रसादीकरणं व्यधित । अत्रापि 'तवैश्वर्ये यत्नाद्यदुपरि' इति वृत्ते ॥
श्वेतस्य कण्ठपुलिनात्समवर्तिपाश-
प्रोत्सारणं नयननिर्हरणं भगस्य ।
दुग्धाब्धिदानमुपमन्युमुनेः क्रियासु
 
दक्षस्य विघ्नकरणं मखदीक्षितस्य ॥ ६ ॥
 
तथा श्वेतस्य श्वेताख्यनृपतेरन्तऋत्रासे स्वयंभूलिङ्गमालिङ्गन्तः कण्ठपुलिनात्कण्ठत-
टात्समवर्तिपाशप्रोत्सारणं यमफणिपाशप्रोत्सारणं येन स्वातन्त्र्येण व्यक्ति तथा येन
स्वातन्त्र्येणोपमन्युमुनेरुपमन्युनाम्नो मुनेर्वालस्य क्षोराब्धिदानं क्षीरसमुद्रदानं व्यधित ।
तथा येन स्वातन्त्र्येण मखे ऋतौ निमन्त्रितसर्वदेवतागणे दीक्षितस्य दक्षस्य दक्षप्र-
जापतेः क्रियासु कर्मसु विघ्नं व्यक्ति ।
शूलाधिरोहणपराभवमन्धकस्य
पूष्णो हनुग्रहमनुग्रह मर्जुनस्य ।
नन्दीश्वरस्य रविजादभयं मुजंग-
भङ्गयाभिमानमथनं मुनिमानिनीनाम् ॥ ७ ॥
तथा येन स्वातन्त्र्येणान्धकस्यान्धकासुरस्य शूले वधार्थ काष्ठमये वधदण्डेऽधि-
रोहणमारोहणमेव पराभवस्तं व्यधित । तथा यॆन स्वातन्त्र्येण पूष्णो रवेईनुः कपोल-
लमा । 'कपोलौ तत्परा हनुः' इत्यमरः । इन्वोर्ग्रहो हनुग्रहस्तं व्यक्ति । तथार्जुनस्य
पार्थस्यानुग्रहं जयद्रथकर्णादिमहारथजेतृत्वाख्यं व्यधित । तथा येन स्वातन्त्र्येण नन्दी-
श्वरस्य गणाधीशस्य रविजाद्यमादभयं त्राणं व्यधित । तथा येन स्वातन्त्र्येण मुनिमा-
निनीनां मुनित्रीणां भुजंगभङ्गया भुजंगस्य कामुकस्य भङ्गिर्विच्छित्तिस्तयाभिमानस्य
चारित्राभिमानस्य मथनं व्यधित ॥
 
कि वोपरं हिणकृष्णहरत्वमेत्य
सर्गस्थितिप्रशमनानि जगत्रयस्य ।
क्रीडन्निव व्यति येन निरङ्कुशं त-
त्स्वातन्त्र्यमप्रतिहतं जयतीश्वरस्य ॥ ८ ॥
 
१. 'रोपण' इति क-पाठः २. 'चापरं' इति ख- पाठः.
 
(पञ्चभिः कुलकम् )
 
Digitized by Google