This page has not been fully proofread.

८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
श्री मुक्तिमुक्तिवशकर्मणि कार्मणानि
शंभोर्जयन्ति नुतिचिन्तनपूजनानि ॥ ३ ॥
 
संसारेति । नुतिः स्तुतिश्च चिन्तनं ध्यानं च पूजनमर्चनं च नृतिचिन्तनपूजनानि
श्रीशंभोः श्रीशिवस्य जयन्ति सर्वोत्कृष्टानि भवन्ति । एतानि कानीत्यारोपेणाह-सं-
सारेति । संसार एव दारुणो दवानलो दावाग्निः । दाहकत्वात् । तेन दह्यमाना ये वा
क्वित्तकायास्तेषां कुशलीकरणे उल्लाघत्वकरणे औषधानि महौषधानि । तथा पुनः
कानि । श्रीमुक्तीति । श्रीलक्ष्मीः मुक्तिर्भोगपरम्परारूपा मुक्तिरात्यन्तिकदुःखनिवृत्तिश्च ।
तासां वशकर्म वशीकरणं स्वीकरणं तत्र कार्मणानि वशीकरणचूर्णानि ॥
दोषाकरस्य शिरसि स्थितिमुत्तमाङ्ग-
च्छेदं विधेरविरहं नरवाहनस्य ।
भस्मीकृति त्रिपुरपाशधर स्मराणां
 
वश्यं दिशां च दशकं दशकंधरस्य ॥ ४ ॥
दोषाकरेत्यादि पश्चभिः कुलकम् । ईश्वरस्य परमेश्वरस्य निरङ्कुशं निरनुरोधमप्रति-
इतमप्रतिघातं तदेतत्स्वातन्त्र्यं जयति सर्वोत्कृष्टं भवति । तत्किमित्याह - येन स्वात-
न्त्र्येण क्रीडन्निव खेलन्निव दोषाकरस्य दोषा रात्रि करोतीति दोषाकरश्चन्द्रस्तस्य । अथ
च दोषाणामाकरो दोषाकरस्तस्य । अत्रापिशब्द आर्थः । दोषाकरस्यापि शिरसि
स्थिति धारणं व्यधित तज्जयतीति संबन्धः । तथा उत्तमाङ्गच्छेदं शिरश्छेदं वामकनि-
ठाकुलिनखेन विधेः पितामहस्यापि येन स्वातन्त्र्येण व्यधित । तथाहि – 'तवैश्वर्ये य-
लाद्यदुपरि विरियो हरिरधः परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः' इत्येतस्मिन्नेव
वृत्ते ब्रह्मणोऽसत्यवादिनः शिरश्छेदः परमेश्वरेण कृत इति पौराणिकाः । तथा येन स्त्रा
तन्त्र्येण नरवाहनस्य । 'रुद्रदत्तनरवाहनत्वान्नरवाहनः' इति रायमुकुव्याम् । नरवाहनस्य
कुबेरस्याप्यविरहं सख्यं व्यधित । तथा येन स्वातन्त्र्येण त्रिजगज्जयिनामपि त्रिपुरपुराणि
च पाशधरो यमश्च स्मरः कामश्च तेषां मस्मीकार्तं व्यधित । तथा येन स्वातन्त्र्येण द-
शकंधरस्य श्रीशिवभक्तशिरोमणेर्वश्यमधीनं दिशां दशकमपि व्यघित ॥
शौर्यानलस्य परशुव्यजनेन दीप्ति
 
रामस्य बाहुपरिघप्रतिघं मघोनः ।
हैमं मरुत्तनृपतेर्दिवसानि सप्त
 
वर्ष सुदर्शनसमर्पणमच्युतस्य ॥ ९ ॥
 
तथा येन स्वातन्त्र्येण रामस्य परशुरामस्य स्वभक्तस्य परशुमायुधविशेषं प्रसादीकृत्य
स परशुरेव व्यजनं तालवृन्तं तेन तस्यैव जामदभ्यस्य शौर्यानलस्य शौर्यामेदर्दीप्ति व्य-
१. 'भङ्गं' इति ख- पाठः,
 
८५
 
Digitized by Google