This page has been fully proofread once and needs a second look.

59
 
बोधायनपरिभाषायाम् –
 

 
अथास्तमित आदित्ये अन्योन्यमलङ्कृत्योपरिशय्यायां शयाते ।

अथैनां सर्वसुरभिगन्धमालया युनक्ति इति ॥
 

 
तच्छेषे बोधायनः—
 

 
तस्याः सह पत्या पूर्वरात्रावुपसंवेशनम् । अर्धरात्रादधश्शय-

नमा ब्राह्ममुहूर्तादिति ॥
 

 
आर्द्रपादया भर्तृसङ्गो न कर्तव्यः । तथा च व्यास:-

आर्द्रपादा च या नारी भर्तुसङ्गं समाचरेत् ।

आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥

कंचुकेन समं नारी भर्तृसङ्गं समाचरेत् ।
तिमिर्च पैं

तिभिर्वैर्षै
श्च मध्ये वा विधवा भवति ध्रुवम् ॥

तालपत्रगलत्कर्णा दयिता मैथुनं व्रजेत् ।

पञ्चमे सप्तमे वर्षे वैधव्यमिह जायते ॥

पादलग्नतनुश्चैव ह्युच्छिष्टं ताडनं तथा ।

कोपः क्रोधश्च निर्भर्त्सा संयोगेषु न दोषकृत् ॥

कुङ्कुमं चाञ्जनञ्चैव तथा हारिद्रचन्दने ।

धौतवस्तूंत्रं च तांबूलं संयोगेषु शुभावहमिति ॥

उपभोगसमये नीलवस्त्रधारणं न दोषाधायकम् ॥

तथा चापस्तंबः-

नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् ।

अहोरातोपिषितो भूत्वा पञ्चगव्येन शुध्यति ॥

स्तीत्रीणां क्रीडार्थसंभोगे शयनीये न दुष्यतीति ॥

इति आह्निकधर्माः ॥

ஆஹ்னிகதர்மம் முற்றிற்று.