This page has not been fully proofread.

59
 
बोधायनपरिभाषायाम् –
 
अथास्तमित आदित्ये अन्योन्यमलङ्कृत्योपरिशय्यायां शयाते ।
अथैनां सर्वसुरभिगन्धमालया युनक्ति इति ॥
 
तच्छेषे बोधायनः—
 
तस्याः सह पत्या पूर्वरात्रावुपसंवेशनम् । अर्धरात्रादधश्शय-
नमा ब्राह्ममुहूर्तादिति ॥
 
आर्द्रपादया भर्तृसङ्गो न कर्तव्यः । तथा च व्यास:-
आर्द्रपादा च या नारी भर्तुसङ्गं समाचरेत् ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥
कंचुकेन समं नारी भर्तृसङ्गं समाचरेत् ।
तिमिर्च पैंश्च मध्ये वा विधवा भवति ध्रुवम् ॥
तालपत्रगलत्कर्णा दयिता मैथुनं व्रजेत् ।
पञ्चमे सप्तमे वर्षे वैधव्यमिह जायते ॥
पादलग्नतनुश्चैव ह्युच्छिष्टं ताडनं तथा ।
कोपः क्रोधश्च निर्भर्सा संयोगेषु न दोषकृत् ॥
कुङ्कमं चाञ्जनञ्चैव तथा हारिद्रचन्दने ।
धौतवस्तूं च तांबूलं संयोगेषु शुभावहमिति ॥
उपभोगसमये नीलवस्त्रधारणं न दोषाधायकम् ॥
तथा चापस्तंबः-
नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् ।
अहोरातोपितो भूत्वा पञ्चगव्येन शुध्यति ॥
स्तीणां क्रीडार्थसंभोगे शयनीये न दुष्यतीति ॥
इति आह्निकधर्माः ॥
ஆஹ்னிகதர்மம் முற்றிற்று.