This page has been fully proofread once and needs a second look.

श्रीहयग्रीवस्तोत्रम्
 
5
 
6
 
7
 
8
 
9
 
<page>
<verse lang="sa">
विशुद्ध विज्ञान घन स्वरूपं

विज्ञान विश्राणन बद्धदीक्षम् ।

दयानिधिं देहभृतां शरण्यं

देवं हयग्रीवमहं प्रपद्ये ॥
 
५</verse>
<p lang="sa">
अपौरुषेयैरपि वाक्प्रपञ्चै:
 

अद्यापि ते भूतिमदृष्टपाराम् ।

स्तुवन्नहं मुग्ध इति त्वयैव
 

कारुण्यतो नाथ ! कटाक्षणीयः ॥
 
६</p>
<verse lang="sa">
दाक्षिण्यरम्या गिरिशस्य मूर्तिः

देवी सरोजासन धर्मपत्नी ।

व्यासादयोऽपि व्यपदेश्य वाचः

स्फुरन्ति सर्वे तव शक्तिलेशैः ॥
 
७</verse>
<p lang="sa">
मन्दोऽभविष्यन्नियतं विरिञ्चो
 

वाचां निधे ! वञ्चितभागधेयः ।

दैत्यापनीतान् दययैव भूयोऽपि

अध्यापयिष्यो निगमान् न चेत् त्वम् ॥
 
८</p>
<p lang="sa">
वितर्कडोलां व्यवधूय '<ref>1</ref>सत्त्वे

बृहस्पतिं वर्तयसे यतस्त्वम् ।

तेनैव देव ! त्रिदशेश्वराणाम्
 

अस्पृष्ट डोलायित माधिराज्यम् ॥
 
2
 
९</p>
<footnote mark="
1 'तत्त्व'
 

 

 

 
" lang="sa">&apos;तत्त्वे&apos;</footnote>
</page>