This page has not been fully proofread.

Appendix 1
 
श्रीः
 
श्रीमन्निगमान्त महादेशिक विरचिताः दिव्यदेश मंगळासन श्लोकाः
 
श्रीमान्वेंकटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
 
विधिविहितसपर्यां वीतदोषानुषङ्गाम्
 
स्वयमुपचिनु नित्यं रङ्गधामन् स्वरक्षां
 
शमितविमतपक्षां शाश्वतीं रङ्गलक्ष्मीम् ॥
 
- श्री सारसारम्- (श्रीरङ्गम्)
 
प्रशमितकलिदोषां प्राज्यभोगानुबन्धां
समुदितगुणजातां सम्यगाचारयुक्तान् ।
श्रितजनबहुमान्यां श्रेयसीं वेङ्कटाद्रौ
श्रियमुपचिनु नित्यं श्रीनिवास त्वमेव ॥
 
वरद विरचय त्वं वारिताशेषदोषां
पुनरुपचितपुण्यां भूषितां पुण्यकोट्या ।
सितमुदितमनोभिस्तावकैर्नित्यसेव्यां
हतरिपुजनयोगां हस्तिधाम्नस्समृद्धिम् ॥
 
नवनवबहुभोगां नाथ नारायण त्वं
विरचय दुरितौधैस्तामनान्नातगन्धाम् ।
सहजसुलभदास्यैस्सद्भिरभ्यर्थनीयां
यतिपरिवृढयां यादवाद्रेस्समृद्धिम् ॥
 
- श्री रहस्यनवनीतम् - ( वेङ्कटादिः)
 
- श्री तत्वनवनीतम् - ( काञ्चीपुरम् )
 
(तिरुनारायणपुरम् )
 
223