2026-01-19 12:47:37 by ambuda-bot
This page has not been fully proofread.
श्रीमद्वेदान्तदेशिकमङ्गलाशासनम्
यो बाल्ये वरदार्यस्य प्राचार्यस्य परां दयाम् ।
अवाप्य वृद्धिं गमितः तस्मै योग्याय मङ्गलम् ॥
रामानुजार्यादात्रेयान्मातुलात् सकलाः कलाः ।
अवाप विंशत्यब्दे यस्तस्मै प्राज्ञाय मङ्गलम् ॥
श्रुतप्रकाशिका भूमौ येनादौ परिरक्षिता ।
प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम् ॥
सांस्कृतीभिर्द्रामिडीभिः वह्नीभिः कृतिभिर्जनान् ।
यस्समुज्जीवयामास तस्मै सेव्याय मङ्गलम् ॥
यः ख्याति लाभ पूजासु विमुखो वैष्णवे जने ।
क्रयणीय दशां प्राप्तः तस्मै भव्याय मङ्गलम् ॥
६
९
१०
220
यस्मादेव मया सर्व शास्त्रमग्राहि नान्यतः ।
तस्मै वेङ्कटनाथाय मम नाथाय मङ्गलम् ॥
११
पित्रे ब्रह्मोपदेष्ट्रे मे गुरखे दैवताय च ।
प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गलम् ॥
१२
।
यः कृतं वरदार्येण वेदान्ताचार्य मङ्गलम् ।
आशास्तेऽनुदिनं सोऽपि भवेन्मङ्गल भाजनम् ॥
१३