2026-01-19 12:47:37 by ambuda-bot
This page has not been fully proofread.
श्रीः
श्रीकुमार वरदाचार्येण कृतं
श्रीमद्वेदान्तदेशिक मङ्गलाशासनम्
श्रीमान् वेङ्कटनाथार्य: कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।
श्रीमलक्ष्मण योगीन्द्र सिद्धान्त विजयध्वजम् ।
विश्वामित्र कुलोद्भूतं वरदार्यमहं भजे ॥
सर्वतन्त्र स्वतन्त्राय सिंहाय कविवादिनाम् ।
वेदान्ताचार्य वर्याय वेङ्कटेशाय मङ्गलम् ॥
नभस्यमासि श्रोणायामवतीर्णाय सूरये ।
विश्वामित्रान्वयायास्तु वेङ्कटेशाय मङ्गलम् ॥
पिता यस्यानन्तसूरिः पुण्डरीकाक्ष यज्वनः ।
पौत्रो 'यस्तनयस्तोतारम्बायास्तस्य मङ्गलम् ॥
वेङ्कटेशावतारोऽयं तद्वण्टांशोऽथवा भवेत् ।
यतीन्द्रांशोऽथवेत्येवं वितर्क्यायास्तु मङ्गलम् ॥
श्रीभाष्यकारः पन्थानमात्मना दर्शितं पुनः ।
उद्धर्तुमागतो नूनमित्युक्तायास्तु मङ्गलम् ॥
'यस्तनयस्तोताद्रयम्बायाः
१
219