This page has not been fully proofread.

954
 
955
 
956
 
अभीतिस्तवः
 
भयं शमय रङ्गधाम्नयनितराभिलाष स्पृशां
श्रियं बहुलय प्रभो श्रित विपक्षमुन्मूलय । ।
स्वयं समुदितं वपुस्तव निशामयन्तः सदा
 
वयं त्रिदश निर्वृतिं भुवि मुकुन्द विन्देहि ॥
 
श्रियः परिवृढे त्वयि श्रित जनस्य संरक्षके
सदद्भुत गुणोदधाविति समर्पितोऽयं 'भरः ।
प्रतिक्षणमतः परं प्रथय रङ्गधामादिषु
 
प्रभुत्वमनुपाधिकं प्रथित हेतिभिर्हेतिभिः ॥
 
कलि प्रणिधि लक्षणैः कलित शाक्य लोकायतैः
तुरुष्क यवनादिभिर्जगति जृम्भमाणं भयम् ।
प्रकृष्ट निजशक्तिभिः प्रसभमायुधैः पञ्चभिः
 
क्षिति त्रिदश रक्षकैः क्षपय रङ्गनाथ क्षणात् ॥
 
२०
 
२१
 
२२
 
957
 
दिति प्रभवदेहभद् दहन सोम सूर्यात्मकं
 
तमःप्रमथनं प्रभो समुदितास्त्र बृन्दं स्वतः ।
 
स्ववृत्ति वशवर्तित त्रिदश वृत्ति चक्रं पुनः
 
प्रवर्तयतु धानि ते महति धर्म चक्र स्थितिम् ॥
 
२३
 
958
 
मनु प्रभृति मानिते महति रङ्ग धामादिके
 
दनु प्रभव दारुणैर्दरमुदीर्यमाणं परैः ।
 
28
 
प्रकृष्ट गुणक श्रिया वसुधया च सन्धुक्षितः
 
प्रयुक्त करुणोदधिः प्रशमय स्वशक्त्या स्वयम् ॥
 
'जन: 2 प्रचितहेतिभिः महितरङ्ग 'दरमुदीयमानं 'करुणोदधे
 
२४
 
217