This page has not been fully proofread.

अभीतिस्तव:
 
949
 
950
 
सकृत् प्रपदन स्पृशामभय दान नित्यव्रती
न च द्विरभिभाषसे त्वमिति विश्रुतः स्वोक्तितः ।
यथोक्त करणं विदुस्तव तु यातुधानादयः
 
'कथं वितथमस्तु तत् कृपण सार्वभौमे मयि ॥
 
अनुक्षण समुत्थिते दुरित वारिधौ दुस्तरे
 
यदि वचन निष्कृतिर्भवति साऽपि दोषाविला ।
तदित्थमगतौ मयि प्रतिविधानमाधीयतां
 
स्वबुद्धि परिकल्पितं किमपि रङ्गधुर्य त्वया ॥
 
१५
 
१६
 
951
 
विषाद बहुलादहं विषय निर्जितो दुर्जयात्
बिभेमि वृजिनोत्तरस्त्वदनुभूति विच्छेदतः ।
मया नियत नाथवानयमिति त्वमर्थापयन्
 
दयाधन जगत्पते दयित रङ्ग संरक्ष माम् ॥
 
१७
 
952
 
निसर्ग निरनिष्टता तव निरंहसः श्रूयते
 
ततत्रियुग सृष्टिवद्भवति संहृतिः क्रीडितम् ।
 
तथाऽपि शरणागत प्रणय भङ्ग भीतो भवान्
 
मदिष्टमिह यद्भवेत् किमपि मा स्म तज्जीहपत् ॥
 
१८
 
953
 
कयाधुसुत वायस द्विरदपुंगव द्रौपदी-
 
विभीषण भुजङ्गम 'ब्रजगणाम्बरीषादयः ।
 
भवत्पद समाश्रिता भय विमुक्तिमापुर्यथा
 
लभेमहि तथा वयं सपदि ' रङ्गनाथ त्वया ॥
 
१९
 
'तथावितथमस्तु
 
fa विषयवर्गतो
 
'तज्जीहप:
 
'वजजनाम्बरीषादयः
 
धुर्य
 
216