This page has not been fully proofread.

944
 
945
 
अभीतिस्तव:
 
बिभेति भवभृत् प्रभो त्वदुपदेश तीव्रौषधात्
कदध्ब रस दुर्विषे बलिश भक्षवत् प्रीयते ।
अपथ्य परिहार धी बिमुखमित्थमाकस्मिकी
तमप्यवसरे क्रमादवति वत्सला त्वद्दया ॥
 
अपार्थ इति निश्चितः प्रहरणादि योगस्तव
स्वयं वहसि निर्भयस्तदपि रङ्ग 'पृथ्वीधर ।
स्वरक्षणमिवाभवत् प्रणत रक्षणं तावकं
 
यदात्थ परमार्थविन्नियतमन्तरात्मेति ॥
 
१०
 
११
 
946
 
लघिष्ठ सुख सङ्गदैः स्वकृत कर्मनिर्वर्तितैः
कलत्र सुत सोदरानुचर बन्धु संबन्धिभिः ।
धन प्रभृतिकैरपि प्रचुर भीति भेदोत्तरैः
 
न बिभ्रति धृतिं 'प्रभो त्वदनुभूति भोगार्थिनः ॥
 
१२
 
947
 
948
 
न वक्तुमपि शक्यते नरक गर्भ वासादिकं
वपुश्च बहु धातुकं निपुण चिन्तने तादृशम् ।
त्रिविष्टप मुखं तथा दिवि पदस्य ते दीव्यतः
किमत्र न भयास्पदं भवति रङ्ग पृथ्वीपते ॥
 
भवन्ति मुख भेदतो भय निदानमेव प्रभो
शुभाशुभ विकल्पिता जगति देश कालादयः ।
इति 'चुरसाध्वसे मयि दयिष्यसे त्वं न चेत्
 
क इत्थमनुकम्पिता त्वदनुकम्पनीयश्च कः ॥
 
१३
 
१४
 
'पृथ्वीपते
तव पदस्य देदीप्यत:
 
परमात्मा
 
अमे
 
'प्रथित साध्वसे
 
"विभो
' इत्थमनुकम्पते
 
215