This page has not been fully proofread.

अभीतिस्तव:
 
939
 
भवन्तमिह यः स्वधी नियत चेतनाचेतनं
 
940
 
941
 
942
 
943
 
214
 
पनायति नमस्यति स्मरति वक्ति पर्येति वा ।
गुणं कमपि वेत्ति वा तव गुणेश गोपायितुः
 
कदाचन कुतश्चन वचन तस्य न स्याद् भयम् ॥
 
स्थिते मनसि विग्रहे गुणिनि धातु साम्ये सति
स्मरेदखिलदेहिनं य इह जातुचित् त्वामजम् ।
तयैव खलु संघया तमथ दीर्घ निद्रावशं
 
स्वयं विहित संस्मृतिर्नयसि धाम नैःश्रेयसम् ॥
 
रमादयित रङ्गभूरमण कृष्ण विष्णो हरे
त्रिविक्रम जनार्दन त्रियुग नाथ नारायण ।
 
इतीव शुभदानि यः पठति नामधेयानि ते
 
न तस्य यम वश्यता नरक पात भीतिः कुतः ॥
 
कदाचिदपि रङ्गभू रसिक यत्र देशे वशी
त्वदेक नियताशयस्त्रिदश वन्दितो वर्तते ।
तदक्षत तपोवनं तव च राजधानी स्थिरा
सुखस्य सुखमास्पदं सुचरितस्य दुर्गं महत् ॥
 
त्रिवर्ग पथ वर्तिनां त्रिगुण लङ्घनोद्योगिनां
द्विषत्प्रमथनार्थिनामपि च रङ्ग दृश्योदयाः ।
 
स्खलत्समय कातरी हरण जागरूकाः प्रभो
 
कर ग्रहण दीक्षिताः क ' इव ते न दिव्या गुणाः ॥
 

 

 
1 इह