This page has not been fully proofread.

935
 
श्रीः
 
अभीतिस्तवः
 
श्रीमान् वेङ्कटनाथार्य: कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
 
अभीतिरिह यज्जुषां यदवधीरितानां भयं
भयाभय विधायिनो जगति यन्निदेशे स्थिताः ।
तदेतदतिलङ्घित द्रुहिण शंभु शक्रादिकं
रमासखमधीमहे किमपि रङ्गधुर्यं महः ॥
 

 
936
 
दया शिशिरिताशया मनसि मे सदा जागृयुः
 
श्रियाध्युषित वक्षसः श्रित मरुद् वृधा सैकताः ।
 
जगद्दुरित घमरा जलधि डिम्भ डम्भस्पृशः
 
सकृत्प्रणत रक्षण प्रथित संविदः संविदः ॥
 

 
937
 
यदद्य मित बुद्धिना बहुल मोह भाजा मया
 
गुणग्रथित काय वाङ्मनस वृत्ति वैचित्र्यतः ।
 
अतर्कित हिताहित क्रम विशेषमारभ्यते
 

 
938
 
तदप्युचितमर्चनं परिगृहाण रङ्गेश्वर ॥
 
मरुत्तरणि पावक त्रिदश नाथ कालादयः
स्वकृत्यमधिकुर्वते त्वदपराधतो बिभ्यतः ।
महत् किमपि वज्रमुद्यतमिवेति यच्छ्रूयते
 
तरत्यनव तद्भयं य इह तावकः स्तावकः ॥
 
20
 
213