This page has not been fully proofread.

श्रीः
 
न्यासदशकम्
 
श्रीमान् वेङ्कटनाथार्य: कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
 
अहं मद्रक्षण भरो मद्रक्षण फलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद् बुधः ॥
 
न्यस्याम्यकिञ्चनः श्रीमन्ननुकूलो ऽन्यवर्जितः ।
विश्रास प्रार्थना पूर्वं आत्मरक्षा भरं त्वयि ॥
 
'स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
 

 

 
स्वदत्त स्वधिया स्वार्थं स्वस्मिन् ' न्यस्यति मां स्वयम् ॥
 

 
श्रीमन्नभीष्ट वरद त्वामस्मि शरणं गतः ।
 
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥
 
त्वच्छेषत्वे स्थिर धियं त्वत्प्राप्त्येक प्रयोजनम् ।
निषिद्ध काम्य रहितं कुरु मां नित्य किङ्करम् ॥
 
देवी भूषण हेत्यादि जुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैंकर्येषु नियुङ्क्ष्व माम् ॥
 
'स्वामिन्
 
न्यस्यसि
 

 
209