This page has not been fully proofread.

न्यासविशति:
 
अयमत्र मुमुक्षोरनुशासनीयसंग्रहः - सदाचार्योपसत्तिपूर्वकं सम्यक् ज्ञानं
संपाद्य, गुरुतरोपायान्तरनिष्पादनाद्यनुगुणज्ञानशक्तिविरहान्निर्विण्णः, स्वशक्यसकृत्कर्त-
व्यलधूपायपरामर्शेन प्रत्यवस्थापितः फलसङ्गकर्तृत्वादित्यागयुक्तसाङ्गभरन्यालेन
कृतकृत्यः स्वीकृतभरं शरण्यं श्रियः पतिमवलोक्य निर्भरो निर्भयश्च स्वयंप्रयोजनकैङ्कर्येण
सुखं वर्तेत इति ॥
 
२२
 
कविता सिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥