2026-01-19 12:47:34 by ambuda-bot
This page has not been fully proofread.
न्यासविंशतिः
912 उक्तार्थस्थिरीकरणाय सामान्यत उपायशब्दार्थे ( विवृण्वन् ) सिद्धसाध्योपाय
विशेषौ तत्प्रयोजनं च विभजते-
913
समर्थितमेव साङ्गभरन्यासं यथावदनुष्टानाय मुखभेदेन शिक्षयन् तद्विषयकर्तव्यशेषं
नास्तीत्याह-
यस्मै प्रयोजनाय इति शेषः । सकृत् इत्यनेन 1 उपासनवदावृत्तिसापेक्षत्वं
नास्तीत्युच्यते । " सकृत् कृतः शास्त्रार्थः " इत्यस्यात्रापवादो नास्ति ।
"सकृदेव" इत्यादिभिः अनुग्रह एव । सदा - यावत्फलप्राप्तीत्यर्थः ।
प्रत्युत
"
ननु न्यासनिष्ठमेव "तस्यैवं विदुषः" इति परामृश्य, तत्कर्तव्यत्वेन
पुरुषविद्याऽऽम्नाता । सा च " यन्मरणं तदवभृथः" इत्यन्ता यज्ञदृष्टिरूपा च ।
अतो यावज्जीवं तदर्थं कर्तव्यस्य विधीयमानत्वात् " न प्रयस्येत् तदर्थम्
इत्यनुपपन्नम् । मैवम्—तत्रापि हि न्यस्तभरस्य कर्तव्यान्तरनैरपेक्ष्यमेव विवक्षितम् ।
यदि तु प्रस्तुतविद्याङ्गत्तयाऽत्र यज्ञक्लृप्तिर्विधीयते तर्हि दर्शपूर्णमासादीनां क्लृप्तिर्न
वाच्या । तेषां यज्ञोपयोगित्वाभावात् 2 अश्रुतापूर्वतदन्वितयज्ञान्तरकल्पनमनेक-
शास्त्रार्थदृष्टिविधिकल्पनं चात्यन्तगौरवोपहतम् । एकस्यावभृथात् पूर्वमन्येषां
क्लृप्तिश्चानुपपन्ना । तस्मात् " एवं शरणमभ्येत्य भगवन्तं सुदर्शनम् । अनुष्ठितक्रतुशतो
भवत्येव न संशयः" इतिवत् यज्ञादिकं सर्वमस्य स्वतः संपन्नं भवतीति स्तुतिमात्रे
तात्पर्यं ग्राह्यम् । शारीरकभाष्यमपि एतदविरोधेन भाव्यम् ॥
१८
914 कृतकृत्यस्योत्तरदशायां स्वाधिकारानुगुणं त्याज्यं स्वतन्त्रविधिप्राप्तं कर्तव्यमनु-
सन्धेयं प्रार्थनीयं च संगृह्णाति -
-
उपायान् - काम्यधर्मान् । अपायान् - प्रत्यवायहेतून् । परं - केवलम् ;
प्रपत्युत्तरकालम् वा । मध्यमां- उपायापायवर्गानन्विताम् । स्वार्हवृत्तिं नित्यरूपां
तत्समाननैमित्तिकरूपां च वृत्तिम् "अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्
प्रायश्चित्तिरियं साऽत्र यत्पुनः शरणं व्रजेत् ॥
' उपासनवदस्यावृत्ति 2 अश्रुतपूर्व
"
इत्युक्तमाह – प्रायश्चित्तं च योग्यम्
-
'स्वाधिकाराद्यणं
206