This page has not been fully proofread.

न्यासविंशतिः
 
प्रणयोऽत्र याच्ञा । आज्ञा- आज्ञाकरणम् । आदिशब्देन भृतिदानादिसंग्रहः ।
अनेकार्थभावात् शरणशब्दस्य अनेकार्थरूढत्वादित्यर्थः । प्रपदनरूपत्वाभावेऽपि
केषाश्चित् गृहागमनादीनां रक्ष्यता हेतुत्वं प्रसिद्धमित्याभिप्रेत्य भवति च इत्यादिकमुक्तम् ॥ १३
909 एवं लौकिक वैदिक सर्वप्रपत्तीनां 'साधारणरूपमुक्तम् । अथ मोक्षैकप्रयोजनायां
प्रपत्तौ सर्व निवृत्ति धर्मसाधारणं स्वाभाविक परशेषत्वानुसन्धानादिरूपं विशेषमाह्—
 
आत्मीयं - उपायफलादि । आत्मा च आत्मीयाश्चेति यावन्तः अर्थाः सन्ति
प्रमाणसिद्धाः तावतां सर्वेषां भगवच्छेषत्वानुसन्धानं कार्यम् । तच्चानुसन्धानमुपादशायामनि
निवृत्तिधर्मविधिस्वाभाव्यादनुवर्तते । इह चामुत्र च स्वयंप्रयोजने कैडर्य स्वत एव भवति ।
अङ्गिभूतभरन्यासांशस्तु न यावदर्थे; किन्तु यथालोकं यावदनन्यसाध्यं स्वाभीष्टं तावत्येव
भवतीत्यर्थः ॥
 
१४
 
910 सर्वशक्तौ भरं न्यस्यतः सर्वधर्मत्यागवचनात् वर्णाश्रमादिधर्मरूपमाज्ञायैङ्घर्यं
तदनुविद्धमनुज्ञाकैङ्कर्यं च न स्यातामित्यत्राह -
 
क्वचित्-चापलात् अशक्यप्रवृत्ते कस्मिंश्चिदधिकारिणि । अन्यसम्मेलने-
प्रपत्त्यङ्गव्यतिरिक्तानां तदर्थतया स्वीकृतौ । तत् - 2 तस्मात् धर्माणां स्वरूपत्यागस्य
प्रपत्यङ्गत्वाभावात् तेषां प्रपत्यङ्गत्वेनानुपादानञ्च इत्यर्थः । सर्वधर्मत्यागवचनस्य अत्र
सर्वाविरुद्धेषु अर्थान्तरेषु संभवत्सु तद्विपरीतार्थकल्पनं न युक्तमिति भावः । एतेन
अलेपकादिपक्षाश्च प्रतिक्षिप्ताः ॥
 
911
 
१५
 
ननु यदि प्रपत्तिरुपायः स्यात् तदा हि तस्या अङ्गित्वं च च
वक्तव्यम् । सा तु तत्तद्वाक्येषु उपायतयोक्तस्य शरण्यस्य विशेषणतया प्रयुक्तैरेकादिशब्दैः
' उपायबुद्धयनत्वेन व्यवच्छिद्यते । तस्मात् पूर्वोक्तं सर्वमयुक्तमित्यत्राह -
 
तत्- विध्यनुरोधेन नेतव्यत्वात् इति भावः । अन्यथाऽप्युपपन्नं सिद्धोपायस्यैक्यं
प्रपत्तेः तत्प्रसादोपायत्वं न विरुन्ध्यादिति भावः । एतेन निर्देशात्र
निरस्ताः वेदितव्याः ॥
 
1
 
'साधारणरूपत्वमुक्तम्
 
3
 
2 तस्मात् दत्तः सर्वधर्माणां... प्रपत्त्यर्थत्वेनाप्रतिपादनाच्च
 
5
 
7
 
' अङ्गित्वं तु प्रयुक्त रेकशब्द: ' एकोपायबुद्धधनर्हत्वेन 'व्यवह्नियते एवं निर्विशेषा
 
१६
 
205