This page has not been fully proofread.

896
 
श्रीः
 
श्रीमन्निगमान्त महा देशिकैः स्वयमनुगृहीता न्यास विंशति व्याख्या
 
श्रीमान् वेङ्कटनाथार्य: कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
 
श्रुति स्मृत्यादि तात्पर्य निरूढा न्यास विंशतिः ।
स्वय व्याक्रियतेऽस्माभिः दिङ्मात्रेण सदिच्छया ॥
 
' प्रपत्त्याद्यपरपर्यायां न्यासविद्यां 2 सजिघृक्षुः प्रथमं तत्त्वज्ञानादिमुन्येन तदधिकार-
हेतुभूतमाचार्यसंग्रहण माह — सिद्धम् इति ।
 
एतेषामाचार्यगुणानां प्रमाणानि - " तद्विज्ञानार्थे स गुरुमेवनिगच्छेत् समित्पाणिः
श्रोत्रियं ब्रह्मनिष्ठम्" 3 इत्यादीनि । श्रोत्रियं - श्रुतवेदान्तम् । समयनियतया यथाकालं
प्रवृत्तया; यद्वा धर्मज्ञसमययत्रास्थितया । जितविषयगणं - स्ववशेन्द्रियवर्गम् । सम्यक्
ज्ञानार्थतया गुर्वभिगमनेऽपि स्वेच्छया 4 प्रवर्तमानस्य नियमांशमात्रे 5 विधिरिति ज्ञापनार्थम्
इप्सेत् इति "सन्प्रयोग": ॥
 
897
 

 
"आचार्यबान् पुरुषो वेद", " आचार्याद्वैव विदिता विद्या साधिष्ठं ' प्रापत् ",
 
" आचार्यवत्तया मुक्तौ " इत्यादिप्रमाणानुसारतः आचार्यवरणे सिद्धे, " आचार्यदेवो भव
दैवमिवाचार्यमुपासीत " इत्यादिविहितम् तत्सेवनमाह - अज्ञानध्वान्त इति ।
 
66
 
"
 
"
 
अत्र उक्ता हेतवः आचार्ये भगवति च अन्वीयन्ते । जन्मप्रध्वंसिजन्म-
विद्याजन्म । 66
ब्रह्मविद्याप्रदानस्य देवैरपि न शक्यते । प्रतिप्रदानमथवा दद्याच्छक्तित
आदरात् ॥ " इत्याद्यभिप्रेत्य अप्रत्युपकरणधिया इत्युक्तम् ॥
 

 
898 सम्यगुपसन्ने सच्छिष्ये " तस्मै स विद्वान् " इत्यादिविहितमाचार्यकृत्यमाह-
सद्बुद्धिः इति ।
 
1 प्रपत्यपरपर्यायां 2 सञ्जिवृक्षुः तत्त्वज्ञानादि...
समयनियतया प्रवृत्तस्य विधिज्ञापनार्थं
 
"
 
.. संग्रहमाह 3 इत्यादीनि द्रष्टव्यानि ।
 
6
 
प्रापत्
 
" आचार्य वत्तया मोक्षमामनन्ति...
 
मुक्तौ " इत्याद्यनुसारतः आचार्यवरणे सिद्धे, "देवमिव
 
26
 
26
 
201