This page has not been fully proofread.

913 अत्यन्ताकिञ्चनोऽहं त्वदपचरणतः सन्निवृत्तोऽद्य नाथ
 
न्यासविंशति:
 
त्वत्सेवैकान्त धीः स्यां त्वमसि शरणमित्यध्यवस्यामि गाढम् ।
त्वं मे गोपायिता स्यास्त्वयि निहितभरोऽस्म्येवमित्यर्पितात्मा
 
1
 
यस्मै स न्यस्त भारः ' सकृदथ तु सदा न प्रयस्येत् तदर्थम् ॥ १८
 
914
 
त्यक्त्वोपायानपायानपि परम जहन्मध्यमां स्वार्ह वृत्तिं
 
प्रायश्चित्तं च योग्यं विगत ऋण तिर्द्वन्द्व वात्यां तितिक्षुः ।
भक्ति ज्ञानादि वृद्धिं परिचरणगुणान् सत्समृद्धिं च ' युक्तां
 
नित्यं याचेदनन्यस्तदपि भगवतस्तस्य यद्वाऽऽप्त वर्गात् ॥ १९
 
915
 
आज्ञा कैङ्कर्य वृत्तिष्वनघ गुरुजन प्रक्रिया नेमि वृत्तिः
 
स्वानुज्ञात सेवा विधिषु च शकने यावदिष्टं प्रवृत्तः ।
 
कर्म प्रारब्ध कार्य प्रपदन महिम ध्वस्त शेषं द्विरूपं
 
भुक्त्वा स्वाभीष्ट काले विशति भगवतः पादमूलं प्रपन्नः ॥
 
२०
 
सकृदिति तु
 
2 युक्त्या
 
199