This page has not been fully proofread.

न्यासविंशति:
 
910
 
न्यासादेशेषु धर्म त्यजन वचनतोऽकिञ्चनाधिक्रियोक्ता
 
911
 
912
 
कार्पण्यं वाऽङ्गमुक्तं भजनवदितरापेक्षणं वाऽप्यपोढम् ।
 
दुःसाधेच्छोद्यमौ वा क्वचिदुपशमितावन्यसंमेलने वा
 
ब्रह्मास्त्र न्याय उक्तस्तदिह न विहतो धर्म आज्ञादि सिद्धः ॥ १५
 
आदेष्टुं स्वप्रपत्तिं तदनुगुण गुणाद्यन्वितं स्वं मुकुन्दो
 
मामित्युक्त्वैकशब्दं वदति तदुचितं तत्र तात्पर्यमूह्यम् ।
 
तत्प्राप्य प्रापकैक्यं सकल फलदतां न्यासतोऽन्यानपेक्षां
 
प्राधान्याद्यं च किञ्चित् प्रथयति स परं श्रीसखे मुक्त्युपाये ॥ १६
 
स्वाभीष्ट प्राप्ति हेतुः स्वयमिह पुरुषः स्वीकृतः स्यादुपायः
 
शास्त्रे लोके च सिद्धः स पुनरुभयथा सिद्ध साध्य प्रभेदात् ।
सिद्धोपायस्तु मुक्तौ निरवधिक दयः श्रीसखः सर्वशक्तिः
 
साध्योपायस्तु भक्तिर्न्यसनमिति पृथक् तद्वशीकार सिद्धयै ॥ १७