2026-01-19 12:47:31 by ambuda-bot
This page has not been fully proofread.
न्यासविंशतिः
904
न्यासः प्रोक्तोऽतिरिक्तं तप इति कथितः स्वध्वरश्चास्य कर्ता
अहिर्बुनयोऽप्यन्ववादीदगणि दिविषदामुत्तमं गुह्यमेतत् ।
साक्षान्मोक्षाय चासौ श्रुत इह तु मुधा बाध शङ्का गुणाढ्ये
तन्निष्ठो ह्यन्य निष्ठान् प्रभुरतिशयितुं कोटि कोट्यंशतोऽपि ॥ ९
905
906
196
नाना शब्दादि भेदादिति तु कथयता सूत्रकारेण सम्यक्
न्यासोपासे विभक्ते यजन हवनवच्छब्द भेदादभाक्तात् ।
आख्या रूपादि भेदः श्रुत इतरसमः किं च भिन्नोऽधिकारः
शीघ्र प्राप्त्यादिभिः स्याज्जगुरिति च मधूपासनादौ व्यवस्थाम् ॥ १०
यत्किञ्चिद्रक्षणीयं तदवन निपुणे न्यस्यतोSकिञ्चनस्य
प्रस्पष्टं लोक दृष्ट्याऽप्यवगमित इह प्रार्थनाद्यङ्ग योगः ।
तस्मात् कर्माङ्गकत्वं व्यपनयति परापेक्षणाभाव वादः
,
साङ्गे त्वष्टाङ्ग योग व्यवहृतिं नयतः षड्विधत्वोपचारः ॥
११