2026-01-19 13:02:44 by akprasad
This page has been fully proofread once and needs a second look.
902
न्यासविशति:
<p lang="sa">सानुक्रोशे समर्थे प्रपदनमृषिभिः स्मर्यतेऽभीष्ट सिद्ध्यै
लोकेऽप्येतत् प्रसिद्धं न च विमतिरिह प्रेक्ष्यते क्वाऽपि तन्त्रे ।
तस्मात् कैमुत्य सिद्धं भगवति तु भरन्यास विद्यानुभावं
धर्म स्थेयाश्च पूर्वे स्वकृतिषु बहुधा स्थापयांचकुरेवम् ॥
<p lang="sa">शास्त्र प्रामाण्य वेदी ननु विधि विषये निर्विशङ्कोऽधिकारी
विश्वासस्याङ्गभावे पुनरिह विदुषा किं महत्त्वं प्रसाध्यम् ।
मैवं घोरापराधैः सपदि गुरु फले न्यास मात्रेण लभ्ये
शङ्का पाष्णि ग्रहार्ह शमयितुमुचिता हेतुभिस्तत्तद
903
<p lang="sa">नेहाभिक्रान्ति नाशो न च विमतिरिह प्रत्यवायो भवेदिति
उक्तं कैमुत्य नीत्या प्रपदन विषये योजितं शास्त्रविद्भिः ।
तस्मात् क्षेत्रे तदर्हे सुविदित समयैर्देशिकैः सम्यगुप्तं
मन्त्राख्यं मुक्ति बीजं परिणति वशतः कल्पते सत्फलाय ॥
195
</page>