2026-01-19 12:47:31 by ambuda-bot
This page has not been fully proofread.
884
885
886
887
888
न्यासतिलकम्
अन्धोऽनन्ध ग्रहण वशगो याति रङ्गेश यद्वत्
पङ्गुनका कुहर निहितो नीयते नाविकेन ।
भुङ्क्ते भोगानविदित नृपः सेवकस्यार्भकादिः
1
त्वत्संप्राप्तौ प्रभवति तथा देशिको मे दयालुः ॥
' उक्त्वा धनञ्जय विभीषण लक्ष्यया ते
प्रत्याय्य लक्ष्मण मुनेर्भवता वितीर्णम् ।
वरं तदनुबन्ध मदावलिप्ते
नित्यं प्रसीद भगवन् मयि रङ्गनाथ ॥
श्रुत्वा
सकृदपि विनतानां सर्वदे सर्वदेहिनि
उपनिषदभिधेये भागधेये विधेये ।
विरमति न कदाचिन्मोहतो हा हतोऽहं
विषम विषय चिन्ता मेदुरा मे दुराशा ॥
यावज्जीवं जगति 2 नियता देह यात्रा भवित्री
त्यक्ताः सर्वे त्रिचतुर दिन ग्लान भोगा नभोगाः ।
दत्ते रङ्गी निजमपि पदं देशिकादेश काङ्क्षी
किं ते चिन्ते परमभिमतं खिद्यसे यत् पुनस्त्वम् ॥
अपि मुहुरपराधैरप्रकम्प्यानुकम्पे
वहति महति योग क्षेम बृन्दं मुकुन्दे ।
मद कलुष मनीषा वज्र लेपावलेपान्
अनुगुणयितुमीहे न प्रभूनप्रभूतान् ॥
२१
२२
२३
२४
२५
1
उक्त्या
2 नियतं
189