2026-01-19 12:47:30 by ambuda-bot
This page has not been fully proofread.
न्यासतिलकम्
869
870
871
872
873
बृन्दानि यः स्व वशयन् व्रज सुन्दरीणां
बृन्दा वनान्तर भुवां सुलभो बभूव ।
श्रीमानशेष जन संग्रहणाय शेते
रङ्गे भुजङ्ग शयने स महा भुजङ्गः ॥
रङ्गास्तीर्ण भुजङ्ग पुङ्गव वपुः पर्यङ्कवर्यं गतौ
सर्ग स्थित्यवसान केलि रसिकौ तौ दंपती नः पती ।
नाभी पङ्कज शायिनः श्रुति सुखैरन्योन्य बद्ध स्मितौ
डिम्भस्याम्बुज संभवस्य वचनैरोंतत्सदित्यादिभिः ॥
घन करुणा रसौघ भरितां परिताप हरां
नयन महरछटां मयि तरङ्गय रङ्गपते ।
दुरित हुताशन स्फुरिंत दुर्दम दुःख मषी -
मलिनित विश्व सौध दुरपह्नव वर्ण सुधाम् ॥
दुर्मोचोद्भट कर्म कोटि निबिडोऽप्यादेश वश्यः कृतो
बाह्यैर्नैव विमोहितोऽस्मि कुदृशां पक्षैर्न विक्षोभितः ।
यो माहानसिको महान् यतिपतेनतश्च तत्पौत्नजान्
आचार्यानिति रङ्गधुर्य मयि ते स्वल्पावशिष्टो भरः ॥
आर्तेष्वाशुफला तदन्य विषयेऽप्युच्छिन्न देहान्तरा
वह्वयादेरनपेक्षणात् तनुभृतां सत्यादिवद् व्यापिनी ।
श्रीरङ्गेश्वर यावदात्म नियत त्वत्पारतन्त्र्योचिता
त्वय्येव त्वदुपाय धीरपिहित स्वोपाय भावाऽस्तु मे ॥
६
९
१०
186