2026-01-19 12:47:30 by ambuda-bot
This page has not been fully proofread.
यतिराजसप्ततिः
858
859
860
861
862
पर्याप्तं पर्यचैषं कणचरण कथामाक्षपादं शिशिक्षे
मीमांसा मांसलात्मा समजनिषि मुहुः सांख्य योगौ समाख्यम् ।
इत्थं तैस्तैर्यतीन्द्र त्रुटित बहुमृषा तन्त्र कान्तार पान्यैः
अन्तर्मोह क्षपान्धैरहह किमिह नश्चिन्तनीयं तनीयः ॥
'गाथा ताथागतानां गलति गमनिका कापिली क्वाऽपि लीना
क्षीणा काणाद वाणी द्रुहिण हर गिरः सौरभं नारभन्ते ।
क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवात् दूरवान्तं
का शङ्का शङ्करादेर्भजति यतिपतौ भद्र वेदीं त्रिवेदीम् ॥
६९
७०
विष्वग्व्यापिन्यगाधे यतिनृपति यशःसंपदेकार्णवेऽस्मिन्
श्रद्धा शुद्धावगाहैः शुभमतिभिरसौ वेङ्कटेशोऽभिषिक्तः ।
प्रज्ञादौर्जन्य गर्जत्प्रतिकथक वचस्तूल वातूल वृत्त्या
सप्तत्या सारखत्या समतनुत सतां प्रीतिमेतां समेताम् ॥ ७१
आशा मतङ्गज गणानविषय वेगान्
पादे यति क्षितिभृतः प्रसभं निरुन्धन् ।
कार्यः कथाहव कुतूहलिभिः परेषां
कर्णे स एष कवितार्किक सिंहनादः ॥
उपशमित कुदृष्टि विप्लवानाम्
उपनिषदामुपचार दीपिकेयम् ।
कबलित भगवद्विभूतिं युग्मां
दिशतु मतिं यतिराज सप्ततिर्नः ॥
1 गाधा
७२
७३
182