2026-01-19 12:47:30 by ambuda-bot
This page has not been fully proofread.
853.
854
855
856
857
यतिराजसप्ततिः
लिप्से लक्ष्मण योगिनः पदयुगं रथ्या पराग च्छटा-
रक्षारोपण धन्य सूरि परिषत्सीमन्त सीमान्तिकम् ।
भिक्षा पर्यटन क्षणेषु बिभरांचक्रे गलत्किल्बिषा
यद्विन्यास मिषेण पत्र मकरी मुद्रां समुद्राम्बरा ॥
नाना तन्त्र विलोभितेन मनसा निर्णीत दुर्नीतिभिः
कष्टं कुत्सित दृष्टिभिर्यतिपतेरादेश वैदेशिकैः ।
व्यासो हासपदी कृतः परिहृतः प्राचेतसश्चेतसः
क्लृप्तः केलि शुकः शुकः स च 2 मुधा बाधाय बोधायनः ॥
अर्ध्या तिष्ठति मामिका मतिरसावाजन्म राजन्वती
६४
६५
पत्या संयमिनामनेन जगतामत्याहित च्छेदिना ।
यत्सारस्वत दुग्ध सागर सुधा सिद्धौषधाखादिनां
प्रस्वापाय न बोभवीति भगवन्माया महायामिनी ॥ ६६
शुद्धादेश वशंवदीकृत यति क्षोणीश वाणीशता-
प्रत्यादिष्ट बहिर्गतिः श्रुति शिरः प्रासादमासीदति ।
दुग्धादन्वदपत्य सन्निधि सदा सामोद दामोदर-
लक्ष्णलोकन दौर्ललित्य ललितोन्मेषा मनीषा मम ॥
आस्तां नाम यतीन्द्र पद्धति जुषामाजान शुद्धा मतिः
तच्चाव्याज विदग्ध मुग्ध मधुरं सारस्वतं शाश्वतम् ।
को वा चक्षुरुदञ्चयेदपि पुरः साटोप तर्कच्छटा
शस्त्राशस्त्रि विहार संभृत रणास्वादेषु वादेषु नः ॥
६७
६८
1 पद्ममकरीमुद्रां
2
मुधाबोधाय
181