2026-01-19 12:47:29 by ambuda-bot
This page has not been fully proofread.
यतिराजसप्ततिः
848
849
850
851
852
यति क्षोणीभर्तुर्यदिदमनिदं भोग जनता-
शिरः श्रेणीजुष्टं तदिह दृढबन्धं प्रभवति ।
अविद्यारण्यानी कुहर विहरन्मामक मनः-
प्रमाद्यन्मातङ्ग प्रथम निगलं पाद युगलम् ॥
सवित्री मुक्तानां सकल जगदेनः प्रशमनी
गरीयोभिस्तीर्थैरुपचित रसा यामुन मुखैः ।
अनिरुच्छेदा निम्नेतरमपि समाप्लावयति मां
यदृच्छा विक्षेपाद् यतिपति दया दिव्य तटिनी ॥
चिन्ताशेष दुरर्थ दन्तुर वचः कन्था शत ग्रन्थिलाः
सिद्धान्ता न समिन्धते यतिवर ग्रन्थानु संधायिनि ।
मुक्ता शुक्ति विशुद्ध सिद्ध तटिनी चूडाल चूडापदः
किं कुल्यां कलयेत खण्ड परशुर्मण्डूक मन्जूषिकाम् !!
वन्दे तं यमिनां धुरन्धरमहं मानान्धकार द्रुहा
पन्थानं परिपन्थिनां निज दृशा रुन्धानमिन्धानया ।
दत्तं येन दया सुधाम्बुनिधिना पीत्वा विशुद्धं पथः
काले नः करिशैल कृष्ण जलदः काङ्क्षाधिकं वर्षति ॥
काषायेण गृहीत पीत वसना दण्डैस्त्रिभिर्मण्डिता
सा मूर्तिर्मुरमर्दनस्य जयति त्रय्यन्त संरक्षिणी ।
यत्प्रख्यापित तीर्थ वर्धित धियामभ्यस्यतां यद्गुणान्
आ सिन्धोरनिदं प्रदेश नियता कीर्तिः प्रजागर्ति नः ॥
५९
६०
६१
६२
६३
1 मनसि
2
दृढबद्धं प्रभवतु
3 बुरुच्छेदा
180