2026-01-19 12:47:29 by ambuda-bot
This page has not been fully proofread.
यति राजसप्ततेः
838
839
840
1
841
842
मुकुन्दाङ्घ्रि श्रद्धा कुमुद वन चन्द्रातप निभाः
मुमुक्षामक्षोभ्यां ददति मुनि बृन्दारकगिरः ।
स्व सिद्धान्त ध्वान्त स्थिर कुतुक दुर्वादि परिषद्-
दिवाभीत प्रेक्षा दिनकर समुत्थान परुषाः ॥
निराबाधा बोधायन 'भणिति निष्यन्द सुभगाः
विशुद्धोपन्यास व्यतिभिदुर शारीरक नयाः ।
अकुण्ठैः कल्पन्ते यतिपति निबन्धा निज मुखैः
अनिद्राण प्रज्ञा रस धमनि वेधाय सुधियाम् ॥
विकल्पाटोपेन
श्रुतिपथमशेषं विघटयन्
यदृच्छानिर्दिष्टे यति नृपति शब्दे विरमति ।
वितण्डाहंकुर्वत्प्रतिकथक वेतण्ड पृतना-
वियात व्यापार व्यतिमथन संरम्भ कलहः ॥
प्रतिष्ठा तर्काणां प्रतिपदमृचां धाम यजुषां
परिष्कारः सानां परिपणमथर्वाङ्गिरसयोः ।
प्रदीपस्तत्त्वानां प्रतिकृतिरसौ तापस गिरां
प्रसत्तिं संवित्तेः प्रदिशति यतीशान फणितिः ॥
हतावद्ये हृद्ये हरि चरण पङ्केरुह युगे
निबध्नन्त्यैकान्त्यं किमपि यति भूभृत्फणितयः ।
शुनासीर स्कन्द द्रुहिण हर हेरम्ब हुतभुक्-
प्रभेशादि क्षुद्र प्रणति परिहार प्रतिभुवः ॥
४९
५०
५१
५२
५३
178
1 कणिति
2 प्रविशतु