2026-01-19 12:47:28 by ambuda-bot
This page has not been fully proofread.
यतिराजसप्ततिः
823
824
स्थितिमवधीरयन्त्यतिमनारथ सिद्धिमतीं
यतिपति संप्रदाय निरपाय धनोपचिताः ।
मधुकर मौलि दन मद दन्तुर दन्ति घटा-
करट कटाह वाहि घन शीकर 'शीभरिताम् ॥
निरुपधि रङ्गवृति रसिकानभिताण्डवयन्
निगम विमर्श केलि ±रसिकैर्निभृतैर्विधृतः ।
गुण परिणद्ध सूक्ति दृढ कोण विघट्टनया
रति दिशा मुखेषु यतिराज यशः पटहः ॥
825
इदं प्रथम संभवत्कुमति जाल कूलङ्कषाः
मृषा मत विषानल ज्वलित जीव जीवातवः ।
क्षरन्त्यमृतमक्षरं यति पुरन्दरस्योक्तयः
३४
३५
चिरन्तन सरस्वती चिकुर बन्ध सैरन्ध्रिकाः ॥
३६
826
सुधाशन सुदुर्ग्रह श्रुति समष्टि मुष्टिन्धयः
कथाद्दवमसौ गतान् कपट सौगतान् खण्डयन् ।
मुनिर्मनसि लक्ष्मणां मुदमुदञ्चयत्यञ्जसा
मुकुन्द गुण मौक्तिक प्रकर शुक्तिभिः सूक्तिभिः ॥
३७
827
कपर्दि मत कर्दमं कपिल कल्पना वागुरां
दुरत्ययमतीत्य तद् द्रुहिण तन्त्र यन्त्रोदरम् ।
कुदृष्टि कुहना मुखे निपततः पर ब्रह्मणः
कर ग्रह विचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥
३८
1 शीफरिताम्
2 निरतः
175
823
824
स्थितिमवधीरयन्त्यतिमनारथ सिद्धिमतीं
यतिपति संप्रदाय निरपाय धनोपचिताः ।
मधुकर मौलि दन मद दन्तुर दन्ति घटा-
करट कटाह वाहि घन शीकर 'शीभरिताम् ॥
निरुपधि रङ्गवृति रसिकानभिताण्डवयन्
निगम विमर्श केलि ±रसिकैर्निभृतैर्विधृतः ।
गुण परिणद्ध सूक्ति दृढ कोण विघट्टनया
रति दिशा मुखेषु यतिराज यशः पटहः ॥
825
इदं प्रथम संभवत्कुमति जाल कूलङ्कषाः
मृषा मत विषानल ज्वलित जीव जीवातवः ।
क्षरन्त्यमृतमक्षरं यति पुरन्दरस्योक्तयः
३४
३५
चिरन्तन सरस्वती चिकुर बन्ध सैरन्ध्रिकाः ॥
३६
826
सुधाशन सुदुर्ग्रह श्रुति समष्टि मुष्टिन्धयः
कथाद्दवमसौ गतान् कपट सौगतान् खण्डयन् ।
मुनिर्मनसि लक्ष्मणां मुदमुदञ्चयत्यञ्जसा
मुकुन्द गुण मौक्तिक प्रकर शुक्तिभिः सूक्तिभिः ॥
३७
827
कपर्दि मत कर्दमं कपिल कल्पना वागुरां
दुरत्ययमतीत्य तद् द्रुहिण तन्त्र यन्त्रोदरम् ।
कुदृष्टि कुहना मुखे निपततः पर ब्रह्मणः
कर ग्रह विचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥
३८
1 शीफरिताम्
2 निरतः
175