2026-01-19 12:47:28 by ambuda-bot
This page has not been fully proofread.
यतिराजसप्ततिः
818
819
820
821
822
मुनि बहुमत सारा मुक्ति निश्रेणिकेयं
सहृदय हृदयानां शाश्वती दिष्ट सिद्धिः ।
'शमित दुरित गन्धा संयमीन्द्रस्य सूक्तिः
परिचित गहना नः प्रस्नुवीत प्रसादम् ॥
भव मरु परिरखिन्न स्फीत पानीय 2 सिन्धुः
दुरित रहित जिह्वा दुग्ध कुल्या सकुल्या ।
श्रुति नयन सनाभिः शोभते लक्ष्मणोक्तिः
नरक मथन सेवास्वाद नाडिँधमा नः ॥
हरिपद मकरन्द स्यन्दिनः संश्रितानां
अनुगत बहुशाखास्तापमुन्मूलयन्ति ।
शमित दुरित गन्धाः संयमीन्द्र प्रबन्धाः
कथक जन मनीषा कल्पना कल्पवृक्षाः ॥
नानाभूतैर्जगति समयैर्नर्म लीलां विधित्सोः
अन्त्यं वर्णं प्रथयति विभोरादिम व्यूह भेदे ।
विश्वं त्रातुं विषय नियतं व्यञ्जितानुग्रहः सन्
विष्वक्सेनो यतिपतिरभूद् वेत्रसारस्त्रिदण्डः ॥
लक्ष्यं बुद्धे रसिक रसना लास्य लीला निदानं
शुद्ध स्वादं किमपि जगति श्रोत्र दिव्यौषधं नः ।
लक्ष्यालक्ष्यैः सित जलधिवद्भाति तात्पर्य रत्नैः
लक्ष्मीकान्त स्फटिक मुकुरो लक्ष्मणार्योपदेशः ॥
२९
३०
३१
३२
३३
1 शमित विमत खेदा
2 सिद्धिः
3 भेदैः
174