2026-01-19 12:47:28 by ambuda-bot
This page has not been fully proofread.
यतिराजसप्ततिः
808 परुषातिवाद परिवाद पैशुन-
809
810
811
812
प्रभृति प्रभूत पतनीय पङ्किला ।
स्वदते ममाद्य सुभगा सरस्वती
यतिराज कीर्ति कतकैर्विशाधिता ॥
अनुकल्प भूत मुरभित्पदं सतां
अजहत्त्रिवर्गमपवर्ग वैभवम् ।
चल चित्त वृत्ति विनिवर्तनौषधं
शरणं यतीन्द्र चरणं वृणीमहे ॥
श्वसितावधूत परवादि वैभवाः
निगमान्त नीति जलधेस्तल स्पृशः ।
प्रतिपादयन्ति गतिमापवर्गिकीं
यति सार्वभौम पदसात्कृताशयाः ॥
मूले निविश्य महतां निगम द्रुमाणां
मुष्णन् प्रतारक भयं घृत नैकदण्डः ।
रङ्गेश भक्तजन मानस राजहंसो
रामानुजः शरणमस्तु मुनिः स्वयं नः ॥
सन्मन्त्रवित् क्षिपति संयमिनां नरेन्द्रः
संसार जिह्मग मुखैः समुपस्थितं नः ।
विष्वक् ततं विषय लाभ विषं निजाभिः
गाढानुभाव गरुडध्वज भावनाभिः ॥
१९
२०
२१
२२
२३
808 परुषातिवाद परिवाद पैशुन-
809
810
811
812
प्रभृति प्रभूत पतनीय पङ्किला ।
स्वदते ममाद्य सुभगा सरस्वती
यतिराज कीर्ति कतकैर्विशाधिता ॥
अनुकल्प भूत मुरभित्पदं सतां
अजहत्त्रिवर्गमपवर्ग वैभवम् ।
चल चित्त वृत्ति विनिवर्तनौषधं
शरणं यतीन्द्र चरणं वृणीमहे ॥
श्वसितावधूत परवादि वैभवाः
निगमान्त नीति जलधेस्तल स्पृशः ।
प्रतिपादयन्ति गतिमापवर्गिकीं
यति सार्वभौम पदसात्कृताशयाः ॥
मूले निविश्य महतां निगम द्रुमाणां
मुष्णन् प्रतारक भयं घृत नैकदण्डः ।
रङ्गेश भक्तजन मानस राजहंसो
रामानुजः शरणमस्तु मुनिः स्वयं नः ॥
सन्मन्त्रवित् क्षिपति संयमिनां नरेन्द्रः
संसार जिह्मग मुखैः समुपस्थितं नः ।
विष्वक् ततं विषय लाभ विषं निजाभिः
गाढानुभाव गरुडध्वज भावनाभिः ॥
१९
२०
२१
२२
२३