2026-01-19 12:47:27 by ambuda-bot
This page has not been fully proofread.
यतिराजसप्ततिः
796 अनुज्झित क्षमा योगमपुण्यजन बाधकम् ।
'अस्पृष्ट मदरागं तं रामं तुर्यमुपास्महे ॥
797
798
विगाहे यामुनं तीर्थं साधु बृन्दावने स्थितम् ।
निरस्त जिह्मग स्पर्शे यत्र कृष्णः कृतादरः ॥
दया निघ्नं यतीन्द्रस्य देशिकं पूर्णमाश्रये ।
येन विश्व सृजो विष्णोरपूर्यत मनोरथः ॥
९
799
प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम् ।
प्रसाधयति यत्सूक्तिः स्वाधीन पतिकां श्रुतिम् ॥
१०
800
उपवीतिनमूर्ध्वपुण्ड्रवन्तं
त्रिजगत्पुण्य फलं त्रिदण्ड हस्तम् ।
शरणागत सार्थवाहमीडे
शिखया शेखरिणं पतिं यतीनाम् ॥
११
801
प्रथयन् विमतेषु तीक्ष्ण भावं
प्रभुरस्मत्परिरक्षणे यतीन्द्रः ।
अपृथक्प्रतिपन्न यन्मयत्वैः
ववृधे पञ्चभिरायुधैर्मुरारेः ॥
802
शमितोदय शङ्करादि गर्वः
170
स्वबलादुद्धृत यादवप्रकाशः ।
अवरोपितवान् श्रुतेरपार्थान्
ननु रामावरजः स एष भूयः ॥
१२
१३
1
अस्पृष्टमदिरा गन्ध
३ एव