2026-01-19 12:47:27 by ambuda-bot
This page has not been fully proofread.
'दशावतारस्तोत्रम्
781
782
783
784
785
166
प्रत्यादिष्ट पुरातन प्रहरण ग्रामः क्षणं पाणिजैः
अव्यात् त्रीणि जगन्त्यकुण्ठ महिमा वैकुण्ठ कण्ठीरवः ।
यत्प्रादुर्भवनादवन्ध्य जठरा यादृच्छिकाद् वेधसां
या काचित् सहसा महासुर गृह स्थूणा पितामह्यभूत् ॥
व्रीडा विद्ध वदान्य दानव यशो नासीर घाटी भटः
त्रैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः ।
यत्प्रस्ताव समुच्छ्रित ध्वज पटी वृत्तान्त सिद्धान्तिभिः
स्रोतोभिः सुरसिन्धुरष्टसु दिशा सौधेषु दोधूयते ॥
क्रोधाग्निं जमदग्नि पीडन भवं संतर्पयिष्यन् क्रमात्
अक्षत्रापि सन्ततक्ष य इमां त्रिःसप्त कृत्वः क्षितिम् ।
दत्त्वा कर्मणि दक्षिणां वचन तामास्कन्द्य सिन्धुं वसन्
अब्रह्मण्यमपा करो भगवानाब्रह्म कीटं मुनिः ॥
पारावार पयो विशोषण कला पारीण कालानल-
ज्वाला जाल विहार हारि विशिख व्यापार घोर क्रमः ।
सर्वावस्थ सकृत्प्रपन्न जनता संरक्षणैक व्रती
धर्मो विग्रहवानधर्म विरतिं धन्वी स तन्वीत नः ॥
फक्aत्कौरव पट्टण प्रभृतयः प्रास्त प्रलम्बादयः
तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः ।
क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणैः
आकौमारकमखदन्त जगते कृष्णस्य ताः केलयः ॥
६
1. पलन