This page has not been fully proofread.

777
 
778
 
779
 
780
 
श्रीः
 
दशावतारस्तोत्रम्
 
-XXX-
 
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
 
देवो नः शुभमातनोतु दशधा निर्वर्तयन् भूमिकां
रङ्गे धामनि लब्ध निर्भर रसैरध्यक्षितो भावुकैः ।
यद्भावेषु पृथग्विधेष्वनुगुणान् भावान् स्वयं बिभ्रती
 
यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥
 
निर्मग्न श्रुति जाल मार्गण दशा दत्त क्षणैर्वीक्षणैः
अन्तस्तन्वदिवारविन्द गहनान्यौदन्वतीनामपाम् ।
निष्प्रत्यूह तरङ्ग रिङ्गण मिथः प्रत्यूढ पाथछटा-
डोलारोह सदोडलं भगवतो मात्स्यं वपुः पातु नः ॥
 
अव्यासुर्भुवन त्रयीमनिभृतं कण्डूयनैरद्रिणा
निद्राणस्य परस्य कूर्म वपुषो निश्वास वातोर्मयः ।
' यद्विक्षेपण संस्कृतो दधिपयः प्रेङ्खोलपर्यङ्किका-
 
नित्यारोहण निर्वृतो विहरते देवः सहैव श्रिया ॥
 
गोपायदनिशं जगन्ति कुहना पोत्री पवित्रीकृत-
ब्रह्माण्डः प्रलयोर्मि घोष गुरुभिर्घोणा खैर्घुर्धुरैः ।
यद्दंष्ट्राङ्कुर कोटि गाढ घटना निष्कम्प नित्य स्थितिः
ब्रह्म स्तम्बमसौदसौ भगवती मुस्तेव विश्वभरा ॥
 
' यद्विक्षेपविसंस्थुलो