Stotrarnava /99
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीशिवदण्डकम्
</ignore>
<verse>मत्तेभचर्माम्बरभूषणाय मारान्तकाराय महेश्वराय ।
चन्द्रार्कवैश्वानरलोचनाय तस्मै मकाराय नमः शिवाय ॥ ३ ॥
</verse>
<verse>शिवाय गौरीवदनारविन्दसूर्याय दक्षाध्वरनाशनाय ।
श्रीनीलकण्ठाय शिवाप्रियाय तस्मै शिकाराय नमः शिवाय ॥ ४ ॥
</verse>
<verse>वागीशकुम्भोद्भवगौतमादिमुनीन्द्रवन्द्याय मुनीश्वराय ।
त्रैलोक्यनाथाय पुरान्तकाय तस्मै वकाराय नमः शिवाय ॥ ५ ॥
</verse>
<verse>यज्ञस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
नित्याय शुद्धाय निरञ्जनाय तस्मै यकाराय नमः शिवाय ॥ ६ ॥
</verse>
<verse>षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥
</verse>
<verse>प्रातःकाले शिवं दृष्ट्वा निशापापं विनश्यति ।
मध्याह्ने कृतमाजन्म सायाह्नेवे सप्तजन्मसु ॥ ८ ॥
</verse>
<verse>मेरुकाञ्चनदत्तानां गवां कोटिशतैरपि ।
पञ्चकोटीतुरङ्गानां तत्फलं <add>(शिव) </add>लिङ्गदर्शनम् ॥ ९ ॥
</verse>
<trailer text="8_END">॥ इति श्रीशिवषडक्षरस्तोत्रम् ॥
</trailer>
<title>९.
॥ अथ श्रीशिवदण्डकम् ॥
५३
</title>
<p>जय जय जगदीश काशीपुराधीश केशीकृताकाश संपूर्णलोकेश सुत्राम-
कीनाशहस्तोल्लसत्पाश निश्शेषवित्तेश मुख्यामराधीश संसारदुष्पाराजा लावलीनाश-
पूर्वत्वदभ्याशवासप्रद श्रीमदुद्यद्यशोधाम फालोल्लसत्सोम देवद्विषां भीमवर्ष्मा-
वहन् काभदेहं दहन् काममापूरयन् कामदेवस्त्रिया वामनेत्रालसद्वामगात्रा-
सुरस्तोमवित्रासनोमा कलत्रानडुन्नाथपत्रारविन्दाभनेत्रातिमात्रं पवित्रं गुणग्रामपात्रं
वदाम्येष गोत्रं मदीयं च गोत्रं यथा स्यात्पवित्रं तथाधेहि शम्भो प्रपन्नोऽह-
मम्भोजपत्राक्ष दम्भोलिभर्नात्रापि जम्भो हतोऽभूददम्भोक्ति<delete>नुत्यास्मि </delete> <add>[नुत्योऽसि]
</add>
डिम्भोऽस्मि ते देव कुम्भोद्भवस्तुत्य किं भोगिभूषामणे मय्युपेक्षां करोषि
त्वमेतन्न जानासि किं दुःखपाथोधिमग्नं हृपीकौट्य <add>[कौघ ]</add>भुग्नं भवत्पादलग्नं
मदीयाघबृन्देन दूरीकृतोऽसि त्वमेतद्वचस्ते न युक्तं महादेव हा
दैवमेतन्मदीयं यतः सर्वदेवैकवन्द्यादपि श्रैष्ठठ्यमेनोगणस्येति यन्नामजापाद्यानां
ततीनां विनाशोऽथ निन्द्यप्रचण्डापि चण्डालजाति:तिः शिवेत्युक्तिमात्रेण
निर्धूतनिस्सीमपापत्ब्रजा स्यात् तया संवदेत् संवसेच्चेति वैदानि वाक्यान्यपि
</p>
</page>
<ignore>श्रीशिवदण्डकम्
<verse>मत्तेभचर्माम्बरभूषणाय मारान्तकाराय महेश्वराय ।
चन्द्रार्कवैश्वानरलोचनाय तस्मै मकाराय नमः शिवाय ॥ ३ ॥
<verse>शिवाय गौरीवदनारविन्दसूर्याय दक्षाध्वरनाशनाय ।
श्रीनीलकण्ठाय शिवाप्रियाय तस्मै शिकाराय नमः शिवाय ॥ ४ ॥
<verse>वागीशकुम्भोद्भवगौतमादिमुनीन्द्रवन्द्याय मुनीश्वराय ।
त्रैलोक्यनाथाय पुरान्तकाय तस्मै वकाराय नमः शिवाय ॥ ५ ॥
<verse>यज्ञस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
नित्याय शुद्धाय निरञ्जनाय तस्मै यकाराय नमः शिवाय ॥ ६ ॥
<verse>षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥
<verse>प्रातःकाले शिवं दृष्ट्वा निशापापं विनश्यति ।
मध्याह्ने कृतमाजन्म सायाह्
<verse>मेरुकाञ्चनदत्तानां गवां कोटिशतैरपि ।
पञ्चकोटीतुरङ्गानां तत्फलं <add>(शिव)
<trailer text="8_END">॥ इति श्रीशिवषडक्षरस्तोत्रम् ॥
<title>९.
५३
<p>जय जय जगदीश काशीपुराधीश केशीकृताकाश संपूर्णलोकेश सुत्राम-
कीनाशहस्तोल्लसत्पाश निश्शेषवित्तेश
पूर्वत्वदभ्याशवासप्रद श्रीमदुद्यद्यशोधाम फालोल्लसत्सोम देवद्विषां भीमवर्ष्मा-
वहन् काभदेहं दहन् काममापूरयन् कामदेवस्त्रिया वामनेत्रालसद्वामगात्रा-
सुरस्तोमवित्रासनोमा
वदाम्येष गोत्रं मदीयं च गोत्रं यथा स्यात्पवित्रं तथाधेहि शम्भो प्रपन्नोऽह-
मम्भोजपत्राक्ष दम्भोलिभ
डिम्भोऽस्मि ते देव कुम्भोद्भवस्तुत्य किं भोगिभूषामणे मय्युपेक्षां करोषि
त्वमेतन्न जानासि किं दुःखपाथोधिमग्नं हृपीकौट्य
मदीयाघबृन्देन दूरीकृतोऽसि त्वमेतद्वचस्ते न युक्तं महादेव हा
दैवमेतन्मदीयं यतः सर्वदेवैकवन्द्यादपि श्रैष्
ततीनां विनाशोऽथ निन्द्यप्रचण्डापि चण्डालजा
निर्धूतनिस्सीमपाप
</page>