Proofing

2026-04-02 21:26:35 by ambuda-bot

This page has not been fully proofread.

श्रीशिवदण्डकम्
 
मत्तेभचर्माम्बरभूषणाय मारान्तकाराय महेश्वराय ।
चन्द्रार्कवैश्वानरलोचनाय तस्मै मकाराय नमः शिवाय ॥ ३ ॥
शिवाय गौरीवदनारविन्दसूर्याय दक्षाध्वरनाशनाय ।
श्रीनीलकण्ठाय शिवाप्रियाय तस्मै शिकाराय नमः शिवाय ॥ ४ ॥
 
वागीशकुम्भोद्भवगौतमादिमुनीन्द्रवन्द्याय मुनीश्वराय ।
त्रैलोक्यनाथाय पुरान्तकाय तस्मै वकाराय नमः शिवाय ॥ ५ ॥
यज्ञस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
 
नित्याय शुद्धाय निरञ्जनाय तस्मै यकाराय नमः शिवाय ॥ ६ ॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥
 
प्रातःकाले शिवं दृष्ट्वा निशापापं विनश्यति ।
मध्याह्ने कृतमाजन्म सायाह्ने सप्तजन्मसु ॥ ८ ॥
मेरुकाञ्चनदत्तानां गवां कोटिशतैरपि ।
 
पञ्चकोटीतुरङ्गानां तत्फलं (शिव) लिङ्गदर्शनम् ॥ ९ ॥
॥ इति श्रीशिवषडक्षरस्तोत्रम् ॥
 
९.
 
॥ अथ श्रीशिवदण्डकम् ॥
 
५३
 
जय जय जगदीश काशीपुराधीश केशीकृताकाश संपूर्णलोकेश सुत्राम-
कीनाशहस्तोल्लसत्पाश निश्शेषवित्तेश मुख्यामराधीश संसारदुष्पाराजा लावलीनाश-
पूर्वत्वदभ्याशवासप्रद श्रीमदुद्यद्यशोधाम फालोल्लसत्सोम देवद्विषां भीमवर्मा-
वहन् काभदेहं दहन् काममापूरयन् कामदेवस्त्रिया वामनेत्रालसद्वामगात्रा-
सुरस्तोमवित्रासनोमा कलत्रानडुन्नाथपत्रारविन्दाभनेत्रातिमात्रं पवित्रं गुणग्रामपात्रं
वदाम्येष गोत्रं मदीयं च गोत्रं यथा स्यात्पवित्रं तथाधेहि शम्भो प्रपन्नोऽह-
मम्भोजपत्राक्ष दम्भोलिभर्नापि जम्भो हतोऽभूददम्भोक्तिनुत्यास्मि [नुत्योऽसि]
डिम्भोऽस्मि ते देव कुम्भोद्भवस्तुत्य किं भोगिभूषामणे मय्युपेक्षां करोषि
त्वमेतन्न जानासि किं दुःखपाथोधिमग्नं हृपीकौट्य [कौघ भुग्नं भवत्पादलग्नं
मदीयाघबृन्देन दूरीकृतोऽसि त्वमेतद्वचस्ते न युक्तं महादेव हा
दैवमेतन्मदीयं यतः सर्वदेवैकवन्द्यादपि श्रैष्ठयमेनोगणस्येति यन्नामजापाद्यानां
ततीनां विनाशोऽथ निन्द्यप्रचण्डापि चण्डालजाति: शिवेत्युक्तिमात्रेण
निर्धूतनिस्सीमपापत्रजा स्यात् तया संवदेत् संवसेचेति वैदानि वाक्यान्यपि