Stotrarnava /98
This page has not been fully proofread.
५२
श्रीशिवस्तोत्रेषु
७ ॥ अथ श्रीरुद्रमङ्गलाशंसनम् ॥
श्रीमहादेवाय सेवकामरद्रुमाय
सोमशेखराय दिव्यसुन्दराय ।
भीमभुजवलाय दैत्यभीकराय
द्रहिणशैलजा मनोनलदिनेशाय मङ्गलम् ( ? ) ॥ १ ॥
मङ्गलं कैलासमन्दिराय चारुसा-
रङ्गधृतकराय भक्तरञ्जनाय ।
भृङ्गिनाट्यप्रियाय त्रिपुरदानवान्तकाय
गङ्गानदीभुजङ्गाय मङ्गलम् ॥ २ ॥
साम्बशङ्कराय हेमशैलजा [चा ]पधारणाय
शम्बरासुरारिगर्व संहराय ।
अम्बुजासनादिवन्द्यनित्यताण्डव डम्बराय
नीलकण्ठाय मङ्गलम् ॥ ३ ॥
पुण्यपूरुषाय सर्वभूतिदायकाय
कारुण्यमानसाय निटिललोचनाय ।
गण्यगुणगणाय कलुषगहनकीलाय
लावण्यदेहाय शर्वाय मङ्गलम् ॥ ४ ॥
अन्तकान्तकाय प्रत्यहं नमः शिवाय
सुमहदन्तरङ्गवासिने दिगन्तादिने ।
चिन्तितार्थदायिने भसितविलेपनाङ्गाय
शान्ताय श्री गिरीशाय मङ्गलम् ॥ ५ ॥
मङ्गलं मङ्गलं मङ्गलं जयमङ्गलाय भवते ।
अङ्गजारिभुजङ्गभूषण लिङ्गवृषभतुरङ्ग जय जय ॥ ६ ॥
॥ इति श्रीरुद्रमङ्गलाशंसनम् ॥
८. ॥ अथ श्रीशिवषडक्षरस्तोत्रम् ॥
ओंकारसञ्जातसमस्तवेदपुराणपुण्यागमपूजिताय ।
ओंकारवर्णप्रतिपादिताय ओंकाररूपाय नमः शिवाय ॥ १ ॥
नगाधिवासाय निरामयाय भस्माङ्गरागाय भयापहाय ।
देवादिदेवाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥ २ ॥
श्रीशिवस्तोत्रेषु
७ ॥ अथ श्रीरुद्रमङ्गलाशंसनम् ॥
श्रीमहादेवाय सेवकामरद्रुमाय
सोमशेखराय दिव्यसुन्दराय ।
भीमभुजवलाय दैत्यभीकराय
द्रहिणशैलजा मनोनलदिनेशाय मङ्गलम् ( ? ) ॥ १ ॥
मङ्गलं कैलासमन्दिराय चारुसा-
रङ्गधृतकराय भक्तरञ्जनाय ।
भृङ्गिनाट्यप्रियाय त्रिपुरदानवान्तकाय
गङ्गानदीभुजङ्गाय मङ्गलम् ॥ २ ॥
साम्बशङ्कराय हेमशैलजा [चा ]पधारणाय
शम्बरासुरारिगर्व संहराय ।
अम्बुजासनादिवन्द्यनित्यताण्डव डम्बराय
नीलकण्ठाय मङ्गलम् ॥ ३ ॥
पुण्यपूरुषाय सर्वभूतिदायकाय
कारुण्यमानसाय निटिललोचनाय ।
गण्यगुणगणाय कलुषगहनकीलाय
लावण्यदेहाय शर्वाय मङ्गलम् ॥ ४ ॥
अन्तकान्तकाय प्रत्यहं नमः शिवाय
सुमहदन्तरङ्गवासिने दिगन्तादिने ।
चिन्तितार्थदायिने भसितविलेपनाङ्गाय
शान्ताय श्री गिरीशाय मङ्गलम् ॥ ५ ॥
मङ्गलं मङ्गलं मङ्गलं जयमङ्गलाय भवते ।
अङ्गजारिभुजङ्गभूषण लिङ्गवृषभतुरङ्ग जय जय ॥ ६ ॥
॥ इति श्रीरुद्रमङ्गलाशंसनम् ॥
८. ॥ अथ श्रीशिवषडक्षरस्तोत्रम् ॥
ओंकारसञ्जातसमस्तवेदपुराणपुण्यागमपूजिताय ।
ओंकारवर्णप्रतिपादिताय ओंकाररूपाय नमः शिवाय ॥ १ ॥
नगाधिवासाय निरामयाय भस्माङ्गरागाय भयापहाय ।
देवादिदेवाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥ २ ॥