Proofing

2026-04-02 21:26:34 by ambuda-bot

This page has not been fully proofread.

श्रीशिवोत्कर्षसाक्षिपञ्चकम्
 
मुक्तामणीमहास्रक्ततोद्यद्देह-
 
दिक्ताण्डवोत्सव सक्तचतुराङ्ग (?) ॥ ३ ॥
 
पावनाकार पुलपर्तिगोपालसख
 
गोवाहन भुजङ्ग कुलविभूष ।
भावभवहरण मां पालय कृपानिधे
कोविदस्तवपात्र गुम्पपुरिसोमेश ॥ ४ ॥
॥ इति श्रीशिवस्तोत्रम् ॥
 
६. ॥ अथ श्रीशिवोत्कर्षसाक्षिपश्चकम् ॥
 
गायत्रीवल्लभत्वाद्दशरथतनयस्थापिताराधितत्वात्
 
शौरेः कैलासयात्रात्रमुदिततयाभीष्टसन्तानदानात् ।
नेत्रेण स्वेन साकं दशशत कमलैर्विष्णुना पूजितत्वात्
तस्मै चक्रप्रदानादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ १ ॥
कन्दर्पध्वंसकत्वाद्गरलकबलनात् कालगर्वापहृत्त्वात्
दैतेयावास भूतत्रिपुरविदलनाद्दक्षयागे जयित्वात् ।
पार्थस्य स्वास्त्रदानान्नरहरिविजयान्माधवे स्त्रीशरीरे
 
शास्तुः सम्पादकत्वदपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ २ ॥
वाराणस्यां च पाराशरिनियमिभुजस्तम्भनात् प्राक्पुराणां
प्रध्वंसे केशवेनाश्रितवृषवपुषा धारितक्ष्मातलत्वात् ।
अस्तोकैर्ब्रह्म शीर्ष र निशगलगतालङ्कृताऽऽभूषितत्वात्
दानात् प्रज्ञानमुक्त्योरपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ ३ ॥
भूमौ लोकैरनेकैः सततविरचिताराधितत्वादमीषा-
मैश्वर्यप्रदानाद्दशविधवपुषा केशवेनार्चितत्वात् ।
हंसक्रोडाङ्गधारिद्रुहिण मुरहरान्विष्टशीर्षाङ्घ्रिकत्वात्
जन्मध्वंसाद्यभावादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ ४ ॥
वैशिष्ट्ये योनिपीठायितमुररिपुसंश्लिष्टभावेन शम्भोः
स्वस्यैकार्धप्रतीकायितहरिवपुषालिङ्गितत्वेन यद्वा ।
अप्राधान्याद्विशिष्टाद्वयसमधिगमे दानवानामरातेः
शम्भोरुत्कृष्टभावादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ ५ ॥
॥ इति श्रीशिवोत्कर्ष साक्षिपञ्चकं सम्पूर्णम् ॥
 
५१