Proofing

2026-04-02 21:26:29 by ambuda-bot

This page has not been fully proofread.

३६
 
श्रीशिवस्तोत्रेषु
 
हर यद्यस्मत्कृतमपराधं विविधं कृपया हरसि तथा ।
गिरिश महापज्जलवेरस्मानुद्धर धीर कृपाजलवे ॥ १० ॥
सुतमपराधिनमपि कृतशिक्ष जनकः पालयतीश यथा ।
गिरिश महापज्जलवेरस्मानुद्धर धीर कृपा जलधे ॥ ११ ॥
भवता सृष्टं जगदिव सृष्टानस्मानयि भव पालय नित्यम् ।
गिरिश महापज्जलवेरस्मानुद्धर धीर कृपाजलवे ॥ १२ ॥
जगतामेको जनकस्त्वमतो वयमपि जगतो न हि भिन्नाः ।
गिरिश महापज्जलघेरस्मानुद्धर धीर कृपाजलवे ॥ १३ ॥
न हि जानीमो भवदन्यं शंकर धीरं पातारम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १४ ॥
देव गजासुरपरिहृतविभवानस्मान् [भयद] सभवानव सदय ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १५ ॥
 
शरणं भव भव शरणं भव भव भव शरणं त्वं करुणाब्धे ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १६ ॥
नसुता वयमपि तव किमु शम्भो जनको न भवानस्माकम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलवे ॥ १७ ॥
भवता सृष्टाः सकला लोका वयमपि तद्वद्धर सृष्टाः ।
गिरिश महापज्जलधेरस्मामुद्धर धीर कृपाजलधे ॥ १८ ॥
भव भवदन्यं न वयं यामः सकृदपि शरणं भरणे वा ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ १९ ॥
निरवधिकरुणापारावारस्त्वमतो हर हर भवदुःखम् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ २० ॥
भव भवदीयानस्माननिशं कुरु गतदुःखानतिदुःखान् ।
गिरिश महापज्जलधेरस्मानुद्धर धीर कृपाजलधे ॥ २१ ॥
॥ इति श्रीशिवस्तोत्रम् ॥
 
४. ॥ अथ श्रीशिवशतकम् ॥
 
शिवं गौरीष्टिं सुरविटपिमूलस्थितमहं
 
सुवर्णाभं पद्मासनसहितमर्धेन्दुशिरसम् ।
 
कुठारत्रासानुग्रहवरगंदालङ्कृतकरं
 
त्रिणेत्रं संसेवे गुहगजमुखोत्सङ्गमनिशम् ॥ १ ॥