Stotrarnava /79
This page has not been fully proofread.
॥ अथ श्रीशिवस्तोत्राणि ॥
१. ॥ अथ श्रीशिवमङ्गलस्तोत्रम् ॥
मङ्गलं भगवान् शम्भुर्मङ्गलं पुरशासनः ।
मङ्गलं सोमसूर्याग्निलोचनो मम मङ्गलम् ॥ १॥
यन्मङ्गलं कुमारस्य गिरिजाकल्पयत् पुरा ।
तारकं जेतुकामस्य तन्मे भवतु मङ्गलम् ॥ २ ॥
मङ्गलं पार्वतीनाथो मङ्गलं जाह्नवीधरः ।
11
मङ्गलं गिरिजा देवी मङ्गलं सर्वमङ्गलम [ला] ॥ ३ ॥
गिरीन्द्रस्य च मेनायास्त्रैलोक्यस्य तपःफले ।
पार्वत्या जन्मदिवसे तन्मे भवतु मङ्गलम् ॥ ४ ॥
त्रिपुरं हन्तुकामस्य दिधक्षोरन्धकासुरम् ।
भवान्या यत्कृतं भर्तुस्तन्मे भवतु मङ्गलम् ॥ ५ ॥
ईश्वराज्ञानुयातस्य वीरभद्रस्य शूलिना ।
यत्कृतं मङ्गलं कार्यं तन्मे भवतु मङ्गलम् ॥ ६ ॥
हारभूषणकेयूरलीलाभुजगभूषयोः ।
शिवयोः सदृशोद्वाहे तन्मे भवतु मङ्गलम् ॥ ७ ॥
यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।
तयोः संसरणात् पुंसां सर्वतो जयमङ्गलम् ॥ ८ ॥
॥ इति श्रीशिवमङ्गलस्तोत्रं सम्पूर्णम् ॥
२. ॥ अथ श्रीशिवस्तवगद्यम् ॥
त्रैलोक्यस्य भवानेव निग्रहानुग्रहक्षमः ।
श्रीविश्वेश्वर मां पाहि महेश्वर निरीश्वर ॥
जय जय श्रीरुद्र वीरभद्र । विरिश्चिपञ्चमशिरः खण्डन यज्ञपुरुष-
शिरःखण्डन दक्षप्रजापतिशिरः खण्डन देवेन्द्रशिरः खण्डन पूषादित्यदन्तप्रहरण
खगादित्यनेत्र संहारक गीर्वाणजननीनासिकाच्छेदक सरस्वतीनासिकाच्छेदक
हव्यवाहनजिह्वासमुत्पाटक ईशानादिदिक्पालकप्राणोत्पाटन पादाङ्गुष्ठातिनिष्ठुर-
प्रपीडित रोहिणीवल्लभ चरणदलशिरोविघातन प्रसादित गौतमकश्यपाङ्गिरस-
पुरोगममुनिवल्लभ पुण्डरीकलोचनोत्तमाङ्गविनिपातितसमस्त देवता विघातन
1.
गि
3