Proofing

2026-04-03 16:54:27 by ambuda-bot

This page has not been fully proofread.

७३०
 
अनुबन्धः I
 
यच्छासनेन दहनं पुनरस्य चक्रे
 
स्वच्छाध्वरोक्तविधिना सहसामभिः सः ।
पुच्छाभिघातविहृति कपयोऽषि जग्मु-
 
विच्छायतां निशिचराश्च तदावशिष्टाः ॥ ९२ ॥
नेता समस्तजगतां रजनीचरेश -
 
जेताधिलङ्कमभिषिच्य कनिष्टमस्य ।
सीतामवाप विधिरुद्रमुखैश्च योऽसौ
 
पूतां शुचौ स्वजनकेन च नन्द्यमानः ॥ ९३ ॥
 
यानेन विस्तृततरेण तु पुष्पकेण
 
सेनेन वानरजनेन सदारकेण ।
 
मानेन मेरुतुलितेन विभीषणेन
 
योऽनेन यातुमहितेन सह प्रतस्थे ॥ ९४ ॥
 
वीतासुखं निजसमागमतो विमाने
 
सीतामिति कथयत् परितुष्टहृद्यः ।
 
याता पुरीं प्रति निशाचरसन्ततीनां
 
नेतात्र जानकि मया निहतस्तवार्थे ॥ ९५ ॥
 
अम्भोनिधौ जनकनन्दिनि पश्य सेतुं
 
कुम्भोपमोरुकुचशालिनि कोमलाङ्ग ।
 
रम्भोरु वानरसमाहृत शैलवृक्ष-
 
स्तम्भोच्चयेन रचितं भवतीमवाप्तुम् ॥ ९६॥
 
मामाप जानकि तदात्र विभीषणोऽयं
 
सामानि राक्षसवरं कथयंस्त्वदर्थे ।
 
कामातुरं तदनु तेन विनिन्द्यमानो
 
धीमान् विसृज्य सहजं सहितश्चतुर्भिः ॥ ९७ ॥
 
अत्राजं शरणमम्बुनिधिं ततः स
 
वित्रासितस्तदनु पङ्कजसंभवात्रात् ।
 
मित्रायमाण उपहार्यवदन्नलं स्व-
 
पित्रा समोऽयमिति सेतुकृतौ समर्थः ॥ ९८ ॥
 
यानं प्रयाति लघु जानकि पश्य शैल-
 
मेनं च यत्र सहजेन हृतात्मदारः ।
जानन् सक्षमपि मामभवत् सखा मे
 
दीनं कपीश इतसंपदपातशत्रुः ॥ ९९ ॥