Stotrarnava /775
This page has not been fully proofread.
श्रीदशावतारस्तोत्रम्
वातात्मजेन समरे त्रिशिरा हतोऽभू-
नेता निशाचरकुलस्य सुरान्तकोऽपि ।
स्थाताग्रतो यदनुजेन सुरेन्द्रसैन्ये
जेतातिकाय इति राक्षसराजसूनुः ॥ ८४ ॥
सूरात्मजेन कपिभूमिभृता च कुम्भो
वीराग्रणीविरचिताजिरवाप नाशम् ।
घोरात्मकर्मकृतभीति कपिबल[बैलैक-]
[वा ] राकरेण मरुदुद्भवतो निकुम्भः ॥ ८५ ॥
जम्भारिसैन्यपरिमर्दनकृत् स्वपित्रा
संभावितो यदनुजेन समेत्य युद्धम् ।
डम्भाकरो मघवजित् किल कूटयोधी
स्तम्भावितो विनिहतोऽतिबलेन यत्नात् ॥ ८६ ॥
सन्नाहवान् दशमुखः स्वयमेव योद्धुं
नुन्नात्मजादिमृर्तिसंभवशोकभारः ।
खिन्नानपि स्वकजनानथ सान्त्वयित्वा
भिन्नान् कपीनिति करोमि वदन् प्रतस्थे ॥ ८७ ॥
आसीदतोः समरमृद्धकपीन्द्ररक्षो-
नासीरमुज्ज्वलधनुर्धरयोर्द्वयोश्च ।
आसीद्धि यस्य रजनीचरभूपतेः क
यासीति तिष्ठ वदतोर्मिथ एहि शीघ्रम् ॥ ८८ ॥
दन्तावलादिचतुरङ्गसमेतजन्ये
यन्ताजहार दिविषन्नृपतेः शताङ्गम् ।
तं तापसैरपि सुरैरभिपूज्यमानो
हन्तारुरोह रजनीचरभूपतेर्यः ॥ ८९ ॥
लोकेशदैवतशरेण निशाचरेन्द्रो
नाकेशसारथिवचः प्रहितेन येन ।
काकेन चागसि समो गगने सुरेशा-
नी प्रहृष्यति तो हृदये ममार ॥ ९० ॥
योsपेतकोप इह पूर्वजनाशतो वि-
लापेन तद्गुणवता स विभीषणोऽपि ।
तापेन शल्यसहितस्तु यदीयदार-
पापेन युक्त इति तद्दहनं न चक्रे ॥ ९१ ॥
७२९
वातात्मजेन समरे त्रिशिरा हतोऽभू-
नेता निशाचरकुलस्य सुरान्तकोऽपि ।
स्थाताग्रतो यदनुजेन सुरेन्द्रसैन्ये
जेतातिकाय इति राक्षसराजसूनुः ॥ ८४ ॥
सूरात्मजेन कपिभूमिभृता च कुम्भो
वीराग्रणीविरचिताजिरवाप नाशम् ।
घोरात्मकर्मकृतभीति कपिबल[बैलैक-]
[वा ] राकरेण मरुदुद्भवतो निकुम्भः ॥ ८५ ॥
जम्भारिसैन्यपरिमर्दनकृत् स्वपित्रा
संभावितो यदनुजेन समेत्य युद्धम् ।
डम्भाकरो मघवजित् किल कूटयोधी
स्तम्भावितो विनिहतोऽतिबलेन यत्नात् ॥ ८६ ॥
सन्नाहवान् दशमुखः स्वयमेव योद्धुं
नुन्नात्मजादिमृर्तिसंभवशोकभारः ।
खिन्नानपि स्वकजनानथ सान्त्वयित्वा
भिन्नान् कपीनिति करोमि वदन् प्रतस्थे ॥ ८७ ॥
आसीदतोः समरमृद्धकपीन्द्ररक्षो-
नासीरमुज्ज्वलधनुर्धरयोर्द्वयोश्च ।
आसीद्धि यस्य रजनीचरभूपतेः क
यासीति तिष्ठ वदतोर्मिथ एहि शीघ्रम् ॥ ८८ ॥
दन्तावलादिचतुरङ्गसमेतजन्ये
यन्ताजहार दिविषन्नृपतेः शताङ्गम् ।
तं तापसैरपि सुरैरभिपूज्यमानो
हन्तारुरोह रजनीचरभूपतेर्यः ॥ ८९ ॥
लोकेशदैवतशरेण निशाचरेन्द्रो
नाकेशसारथिवचः प्रहितेन येन ।
काकेन चागसि समो गगने सुरेशा-
नी प्रहृष्यति तो हृदये ममार ॥ ९० ॥
योsपेतकोप इह पूर्वजनाशतो वि-
लापेन तद्गुणवता स विभीषणोऽपि ।
तापेन शल्यसहितस्तु यदीयदार-
पापेन युक्त इति तद्दहनं न चक्रे ॥ ९१ ॥
७२९