Proofing

2026-04-03 16:54:26 by ambuda-bot

This page has not been fully proofread.

श्रीदशावतारस्तोत्रम्
 
वातात्मजेन समरे त्रिशिरा हतोऽभू-
 
नेता निशाचरकुलस्य सुरान्तकोऽपि ।
स्थाताग्रतो यदनुजेन सुरेन्द्रसैन्ये
 
जेतातिकाय इति राक्षसराजसूनुः ॥ ८४ ॥
 
सूरात्मजेन कपिभूमिभृता च कुम्भो
वीराग्रणीविरचिताजिरवाप नाशम् ।
घोरात्मकर्मकृतभीति कपिबल[बैलैक-]
 
[वा ] राकरेण मरुदुद्भवतो निकुम्भः ॥ ८५ ॥
 
जम्भारिसैन्यपरिमर्दनकृत् स्वपित्रा
 
संभावितो यदनुजेन समेत्य युद्धम् ।
डम्भाकरो मघवजित् किल कूटयोधी
 
स्तम्भावितो विनिहतोऽतिबलेन यत्नात् ॥ ८६ ॥
 
सन्नाहवान् दशमुखः स्वयमेव योद्धुं
 
नुन्नात्मजादिमृर्तिसंभवशोकभारः ।
 
खिन्नानपि स्वकजनानथ सान्त्वयित्वा
 
भिन्नान् कपीनिति करोमि वदन् प्रतस्थे ॥ ८७ ॥
 
आसीदतोः समरमृद्धकपीन्द्ररक्षो-
 
नासीरमुज्ज्वलधनुर्धरयोर्द्वयोश्च ।
 
आसीद्धि यस्य रजनीचरभूपतेः क
 
यासीति तिष्ठ वदतोर्मिथ एहि शीघ्रम् ॥ ८८ ॥
 
दन्तावलादिचतुरङ्गसमेतजन्ये
 
यन्ताजहार दिविषन्नृपतेः शताङ्गम् ।
तं तापसैरपि सुरैरभिपूज्यमानो
 
हन्तारुरोह रजनीचरभूपतेर्यः ॥ ८९ ॥
 
लोकेशदैवतशरेण निशाचरेन्द्रो
नाकेशसारथिवचः प्रहितेन येन ।
काकेन चागसि समो गगने सुरेशा-
 
नी प्रहृष्यति तो हृदये ममार ॥ ९० ॥
 
योsपेतकोप इह पूर्वजनाशतो वि-
 
लापेन तद्गुणवता स विभीषणोऽपि ।
तापेन शल्यसहितस्तु यदीयदार-
 
पापेन युक्त इति तद्दहनं न चक्रे ॥ ९१ ॥
 
७२९